________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १३३ )
जिनेश्वराणां विजयः—
Acharya Shri Kailassagarsuri Gyanmandir
नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः, सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्वं यः, स जयति जिनाधीशनिवहः, सदानो दीनानाम - यमलमदारेरिततमः ॥ ८२ ॥
(C
टीका - नखांश्विति - ' यः ' जिनत्रातः, 'विश्व' - जगत् । ' इततमः' इतं विनष्टं तमोऽज्ञानं शोको वा यस्य वा यस्मात्तत् इत" तमोन्धकारे स्वर्भानौ, तमः शोके गुणान्तरे तमः, ,, इत्यमरः ः । 'गतमोहं' ‘प्रचक्रे’–चकार । यत्तदोर्नित्यसम्बन्धात्, 'सः' ' नखांशुश्रेणीभिः' नखानां–कररुहाणामंशवो मयूखास्तेषां श्रेणीभि:- -सन्ततिभिः । 'कपिशित नमन्नाकि मुकुटः कपिशिताः - पिशङ्गीकृताः नमतांनाकिनां मुकुटाः - किरीटा येन सः, पिशङ्गः कपिशो हरिः " इति हैमः । “मौलिः कोटीरमुष्णीपं, किरीटं मुकुटोऽस्त्रियाम्" लो०१३५, इतिवैजयन्ती । ' नानामयमलमदारे: ' नाना अनेकरूपा ये आमयाश्च मलाश्च - कर्मलेपाः मदाश्च दर्पाः त एवाऽरयस्तेषाम् । ( सदा ) सततं । ' नोदी' प्रेरणशीलः दूरीकरणस्वभाव इत्यर्थः । ' दीनानां ' कृपणानाम् । 'सदानः,' दानेन सह वर्त्तते इति सदान:- दानसमेतः । दीनानां - दुःखितानां सदान:- अभयदानसहितो वा । दानं पञ्चविधम्
अभयं सुपत्तदाणं, अणुकंपा उचियं कित्तिदाणं च । दोहि वि मुक्खो भणिओ, तिन्नि वि भोगाइयं दिति ॥ १ ॥
धर्मोपष्टम्भज्ञानाऽभयानुकम्पादानमित्यपि वदन्ति - ज्ञानाऽभयो - पग्रहसहदानमितित्रिधाऽपि केचित् । यथा
For Private And Personal Use Only