________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३१) (हेवी ) ( सव्यसन.! ) । विनाश ४२ना२( मस्यતર શત્રુઓને ) નાશ કરે છે ૮૦ છે
२१ श्रीनमिजिनस्तुतयः ।
अथश्रीनमिनाथस्य संस्मरणम्स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं,
ममायासं चारो!, दितमद ! नमेऽघानि लपित !। नमद्भव्यश्रेणी-भवभयभिदां हृद्यवचसाममायासश्चारो-दितमदनमेघानिल ! पितः ॥ ८१ ॥
शिखरिणीवृत्तम् ॥ टीका-स्फुरदिति-स्फुरद्विद्युत्कान्ते ? स्फुरतीति स्फुरन्तीदीप्यन्ती या विद्युत्-तडित ,तद्वत्कान्तिः-प्रभा यस्यासौ तत्संबोधनम्। 'चारो' ! दर्शनीय ! 'दितमद' ! दित:-उन्मूलितो मुन्मोहसंभेदो येन सः खण्डितदर्प ! 'नमगव्यश्रेणीभवभयभिदा' नमन्त्याः नमस्कुर्वन्त्याः भवन्तीति भव्यास्तेषां भव्यानां-सम्यग्दृशां श्रेण्याः भवभयं भवाद्भयं भवभयं-संसारभीति भिन्दन्ति-निर्मूलयन्ति यानि तेषां " श्रेणी लेखास्तुराजयः” इत्यमरः । 'हृद्यवचसाम् ' हृद्यानि च तानि वचांसि च तेषां हृदयङ्गमवचनानाम् । ‘लपितः !' लपनशील ! | ‘अमायासञ्चार!' न विद्यते मायायाः-कपटस्य सञ्चारो यस्मिन् वा मायया सञ्चारो यस्य सः अशाठ्यप्रचारस्तत्सम्बोधनम् । 'उदितमदनमेघाऽनिल !' मदनो मेघ इव मदनमेघः, उदितउद्गतो यो मदनमेघस्तस्य विघट्टने हेतुत्त्वात् । ' अनिल !' वायो ! * पितः !' पातीति पिता तदामन्त्रणे जनकरूप ! निष्कारणहितकारित्त्वात् । ‘नमे !' परीषहादिनाऽनमनानमिः, गर्भस्थितेऽस्मिन्न
For Private And Personal Use Only