________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२५ ) २०-श्रीमुनिसुव्रतजिनस्तुतयः । अथश्री मुनिसुव्रतस्वामिनः स्तवनम्जिनमुनिसुव्रतः समवताजनताऽवनतः,
स मुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादित यस्य निरस्तमन:समुदितमानबाधनमलो भवतो भवतः ॥ ७७॥
तत्कुटकम् (७-१०) जिनमुनीति- मुदितमानवाः ' मुदिताश्च ते मानवाश्चेतिकर्मधारयः, हृष्टाः पुमांसः । ' यस्य' : अलोभवतः ' न विद्यतेलोभोऽस्येत्यलोभवान् तस्य-लोभेनाऽयुक्तस्य दीक्षागृहीतुकामस्य । ' भवतः' भवतीति भवन तस्य सतः । ' अवनिविकीर्णं' अवन्यांपृथिव्यां विकीर्ण-राशीकृतम् । ' धनं' द्रव्यम् । आदिषत' आददत । — सः ' ' जनताऽवनतः ' जनानां समूहो जनता ' ग्रामजनबन्धुगजसहायात्तल' ( सिद्धहेम० ६-२-२८ ) इति — समूहार्थे तल' तया जनतया-मानववृन्देन अवनतः-प्रणतः। 'निरस्तमनः समुदितमानबाधनमल: ' मानोऽहंकृतिः बाधनं बाधा-पीडा, मलोदुरध्यवसायश्च निरस्ता-अपकीर्णा, मनसि समुदिता-हृदि समुद्गताः संहता वा मानश्च बाधनञ्च मलाश्च ते येन सः। 'जिनमुनिसुव्रतः' जिनश्चासौ मन्यते जगतस्त्रिकालावस्थामिति मुनिश्चासौ सुष्ठुव्रतानि यस्य सः सुव्रतश्चेति कर्मधारयः, मुनिसुव्रतनामा जिनः गर्भस्थेऽस्मिन् माता मुनिवत् सुव्रता जातेति वा मुनिसुव्रतः । मुनिरिति ' मनेरुञ्च' ( उणा० ५६२ ) इत्युणादिसूत्रेणाकारस्योकार इश्चप्रत्ययः । ' भवतः' युष्मान् । ' भवत: ' संसारात् । 'समवतात् ' संरक्षतु ॥ ७७ ॥ अस्मिन् पद्ये तत्कुटकं वृत्तम्-" हयदशभिर्नजौ भजजला
For Private And Personal Use Only