________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समस्तजिनवराणां नमस्कृतिःसकलजिनपतिभ्यः पावनेभ्यो नमः सन्
नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दागरीयो
नयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ ६६ ॥ सकलेति- पावनेभ्यः' पावयन्तीति तेभ्यः पावनेभ्यःपवित्रेभ्यः ( पवित्रताजनकेभ्यः ) " पवित्रं पावनं पूतं " इति हैमः ‘सन्नयनरवरदेभ्यः' नयनानि च, रवश्व-देशनाध्वनिः, रदाश्व-दशनास्तेषां समाहारो नयनरवरदं प्राणितुर्याङ्गाणाम् ( सिद्ध० है ० ३-१-१३७ ) इति प्राण्यङ्गत्त्वादेकवद्भावः । सत्शोभनं नयनरवरदं येषां ते तेभ्यः । अत्राऽरविन्दशोभान्यक्कारत्त्वेन नयनयोः, स्निग्धगम्भीरघोषत्त्वेन योजनगामित्त्वेन च देशनाध्वनेः, मण्यादितिस्कारत्त्वेन च दशनानां शोभनत्वं ज्ञेयम् । 'सारवादस्तुतेभ्यः' सारोऽर्थप्रधानः, वादः-उक्तिर्येषां ते तैर्विद्वद्भिः स्तुताः तेभ्यः । सारेण वादेन स्तुतेभ्यो वा । ' सारवात्' आरवेण सहवर्त्तत इति सारवस्तस्मात् सशब्दात्-स्तुतिपरायणादिति यावत् । समारब्धस्तुतित्त्वात् । 'देववृन्दात्' सुरसमूहात् । अत्र सामान्यदेवशब्देन चतुर्निकायदेवा वेदितव्याः " वृन्दं कलापः स्तोमश्च, समूहः पुञ्ज उत्करः । सन्दोहश्च समुदयः, संघातगणराशयः॥ १ ॥ चयः, प्रकर ओघश्च, निकरश्च कदम्बकम् । चक्रवालं च पटलं, कूटं जातं च मण्डलम् ॥ २ ॥ निकुरम्बं च जालं च, समवायश्च सञ्चयः । निवहो विसरो व्रातः, व्रजश्च चक्रपेटके ॥ ३ ॥ व्यूहश्च समुदायश्च, वारश्च संहतिः स्त्रियाम्।” इति शब्दसिन्धुः। 'समधिगतनतिभ्यः' समधिगता-प्राप्ता नुतिः-स्तुतिर्थस्ते तेभ्यः । 'गरीयो नयनरवरदेभ्यः' अतिशयेन गुरवः गरीयांसो नया-नीतयो येषां ते ये च नराः-मनु
For Private And Personal Use Only