________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०३ ) दण्डेति- शमिनः ' शमोऽस्यास्तीतिशमी तस्योपशमयुक्तस्य कस्यचिन्मुनेः । • अनिशं ' निरन्तरं । ' ईक्षणेन' आलोकनेन । ' मूढतां' मूढस्य भावस्तामज्ञताम् । — सन्त्यज्य' सम्यक् त्यक्त्त्वा । 'मुक्ताक्षमालीहितम् ' मुक्ता-त्यक्ता अक्षमा अशान्तिर्यैस्ते मुमुक्षवस्तेषामाली-परम्परा तस्या, ईहितं-इष्टम् । ( यः ) · अधारयत्' धृतवान् । ' सः' । सन्ति ' शोभनानि । · अज्यानि ' न विद्यते ज्या-हानिर्जरा वा येषां तानि, अज्यानि, देवताधिष्ठितत्त्वात्तत्संभवः। अहीनानि शाश्वतानीत्यर्थः ' दण्डच्छत्रकमण्डलूनि ' दण्ड आषाढःव्रतिदण्डः, छत्रं--आतपत्रं, कमण्डलु-कुण्डिका तानि कलयन , कलयतीतिकलयन् , वर्तमाने शतृप्रत्ययः । — शमी' प्रशमवान् । 'इनः ' प्रभुः । “ इनः सूर्ये प्रभौ राजा" इत्यमरः । 'मुक्ताक्षमाली' मुक्ताफलानामक्षमाला जपमाला विद्यतेऽस्यासौमक्ताक्षमाली-मौक्तिकाक्षमालावान , “शुक्ति मौक्तिकं मुक्ता" इति हैमः। 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' तप्तं-द्रुतं यदष्टापदं-कनकं तस्यपिण्डः-गोलकरतद्वत्पिगला-पितरक्ता रुचिः-द्युतिः यस्य सः, "पितरक्तस्तु पिञ्जरः। कपिलः पिङ्गलः श्यावः, पिशङ्गः कपिशो हरिः॥ बभ्रुःकट्ठः कडारश्च, पिङ्गे" इति हैमः । “ पिङ्गलो मर्कटे वन्हौ, निधिभेदाऽहिभेदयोः । यक्षोलूके चित्रके च, वर्षभेदे च शङ्करे ॥ १ ॥ छन्दोग्रन्थेऽर्कपार्श्वस्थे, मुनौ च स्थावरे विषे । हरितालारयोः क्लीवे, त्रिषु च स्वर्णवर्णवत्" ॥२॥ स्त्रियां वेश्याविशेषे च, हस्तिन्यां कुमुदस्त्रियाम् । नाडीभेदे शिंशपायां, ज्योतिष्का रोचनाऽपि च” ॥ ३ ॥ इति शब्दसिन्धुः ‘ब्रह्मशान्तिः' ब्रह्मशान्तिनामा यक्ष: । 'क्षणेन' वेगेन यथा तथा ( अज्यानि) 'शं' (अक्षय) सुखम् । “क्लीवे शं श्रेयसि प्राहुः, सुखे चास्ति शमव्ययः। शःप्रोक्तः शङ्करे शस्त्रे, शं वदन्त्यक्षरं बुधाः " ॥१॥ इति शब्दसिन्धुः ' क्रियात् ' विधेयात् ।। ६४ ॥
For Private And Personal Use Only