________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९१ ) नम इति—'माऽमरेन्द्रनागेन्द्रैः' माश्च-मानवाः, अमराश्व-निर्जरास्तेषामिन्द्राः-मामरेन्द्रास्ते च नागेन्द्राश्च धरणेन्द्रादय स्तैः। “ मनुष्यो मानुषो मो-मनुजो मानवो नरः” इति धनञ्जयः। " अमरा निर्जरा देवाः” इत्यमरः । ' महितायते ! ' महितापूजिता आयतिः-प्रभावो उत्तरकालो वा यस्य स तदामन्त्रणम् । " आयतिः संयमे दैये, प्रभावागामिकालयोः” इतिविश्वः । यद्वामहिता आसमन्ताद् यतयो मुनयो यस्य स तदामन्त्रणम् । (हे) 'श्रीधर्म !' श्रिया-चतुस्त्रिंशदतिशयसमृद्धिरूपया समन्वित ! दुर्गतौ पतन्तं प्राणिसमूहं धारयतीति धर्मः, गर्भस्थितेऽस्मिन् माता दानादिधर्मपराऽजनीति वा धर्मस्तदामन्त्रणम् । श्रीधर्मनाथाऽभिधान ! जिनेन्द्र !। धर्मशब्देनाऽत्र धर्मनाथ एव गृह्यते, पदैकदेशे पदसमुदायस्योपचारात् , भीमो भीमसेनवद् । · निष्कर्मोदयाय' निर्गतः कर्मणां ज्ञानावरणीयादीनामुदयः कर्मोदयो-मलोत्पादो यस्य स तस्मै । दयायमहिताय' दया च कारुण्य, यमाश्च यम्यते चित्तमेभिरिति यमाः पञ्चमहाव्रतानि, वाऽहिंसा सूनृतादयस्तेभ्यः, यद्वा दयाच यमाश्च सन्ति येषामिति मत्वर्थे ' अर्श आदिभ्योऽच्' (पा० ५-२-१२७) इत्यच्प्रत्यये दयायमवयो हिताय-रक्षकाय वृद्धिजनकत्वात् । " अहिंसा सत्यमस्तेय-ब्रह्माऽकिञ्चनता यमाः” इति हैमः । 'ते' तुभ्यं । ' नमः' नमोऽस्तु । नम इति निपातः । “ नेवाइयं पयं दधभावसंकोयणपयत्थो” । नैपातिकं पदं द्रव्यभावसङ्कोचनपदार्थः नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारोऽस्त्वित्यर्थः । 'नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च' ( पा० २-३-१६ ) इति नमो योगे चतुर्थी ॥ ५७ ॥
पञ्चमं लघु सर्वेषु, सप्तमं द्विचतुर्थयोः । गुरुषष्ठं च सर्वेषा-मेतच्छ्लोकस्य लक्षणम् ॥ इतिलक्षणात् ।
For Private And Personal Use Only