________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नृणां वा । अनेन गायकानां समदचेष्टामत्त्वमाचष्ठे । 'गीतारावाः' गीतानामारावाः-गान्धर्वनिनादाः गीतध्वनय इति यावत् । 'यस्मात् श्रीश्रेयांसनाथात् । 'अन्य' अपरं । 'क' पुरुषं । 'बलात्' तरसा । 'कुसुमधनुषा' कुसुममेव धनुः कार्मुकं यस्य स तेन-कामेन । 'तापितं' पीडितम् । 'मोहवशं' रागाधीनम् । 'न व्यधुः ' न विहितवन्तः । उक्तञ्च-" येषां न चेतो विधुरेऽपि काले, विकारहेतावपि विद्यमाने। विकारतामाश्रयते त एव, प्रकीर्तिताः सत्त्वगुणाश्च धीराः " ॥ १ ॥ तथाच-विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः”। इति कुमारसंभवे। ' यन्मनश्च' यस्य चेतश्च ‘कमलसदृशाङ्गी' कमलेन सदशं कोमलत्वादङ्गं यस्याः सा कुसुमसमानदेहा एतेन अङ्गस्पर्शमात्रादेव कामोद्रेको भवतीति सूचितम् । 'तारा' उज्ज्वला गौराङ्गीति यावत् । 'अबला' अन्यस्त्री । वा ' दयिताऽपि ' निजकान्ताऽपि । ' यन्मनः । यस्य मानसं । 'नाहृत' नाऽऽक्षिप्तवती । ' तं' तथाविधं । श्रेयांसं जिनेन्द्र श्रेयांसावंसावस्येति श्रेयांसः पृषोदरादित्वात्साधुः । यथा गर्भस्थेऽस्मिन् केनाऽप्यनाक्रान्तपूर्वदेवताऽधिष्ठितशय्या जनन्याऽऽक्रान्तेति श्रेयोजातमिति श्रेयांसस्तं । “ यतो जगत्पतिर्जातः, सोऽयं श्रेयसि वासरे । श्रेयांस इति नामाऽस्य, जनकोऽजनयत्ततः” ॥१॥ इति जिनचरिते॥ अयि इतिकोमलाऽऽमन्त्रणे “संबोधनेऽङ्ग भोःप्याट् पाट् हे है हं हो अरेऽयि रे” इति हैमः । हे ( भव्याः ! ) यूयं । 'द्राक्' शीघ्रम् । ' प्रणमततरां' मुहुः वाऽतिशयेन प्रणामं कुरुत । ननु विरुद्धमेतत् , यदि निजदयिता तदा कथं मनोनाऽहत ? , मैवं, संयमप्रतिपत्तिं स्वीकृत्येदमभिधीयते न सर्वदा, ततो नास्ति विरुद्धावकाशः ॥ ४१ ।। . हरिणीवृत्तम्-" भवति हरिणी न्सौ म्रौस्लौ गो रसाऽम्बुधिविष्टपैः ” इति लक्षणात्.
For Private And Personal Use Only