________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५३ ) जिनेश्वराणामभ्यर्थनाया जन्तुजाताय हितानि राजी,
सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना
सा राजिनानामलपद्ममालम् ॥ ३४ ॥ येति- जिनानां' तीर्थाधिपानाम् । 'या' 'सारा' सारः-बलं विद्यते यस्यां सा सारा, अनन्तबलत्वात् श्रेष्ठा वा “सारो मजास्थिरांशयोः । बले श्रेष्ठे च सारं तु-द्रविणन्याय्यवारिषु" इति हैमः। 'राजी' श्रेणिः । — जन्तुजाताय' जन्तूनां-मानवानां जाताय-समूहाय । ' हितानि' पथ्यानि कल्याणसाधनानीति यावत् । 'अलपत्' अकथयत् । 'सा' यत्तदोर्नित्याऽभिसम्बन्धात् । ' राजिनानामलपद्ममालं ' राजिनी-राजनशीला-नाना-विविधा अमला-निर्मला पद्मानां माला श्रेणियस्य तत् । ' पादयुगं' पादयोर्युगं तत्-चरणद्वयम् । “पादोऽस्त्री चरणे मूले, तुरीयांशेऽपि दीधितौ । शैलप्रत्यन्तशैले ना” इति विश्वलोचनः। ' दधाना' बिभ्रती । (राजी) 'मम' मे ' अलं' अत्यर्थम् । “ अलं भूषणपर्याप्ति-वारणेषु निरर्थके । अलं शक्तौ च निर्दिष्टम्” इति विश्वः। 'मुदं' हर्षम् । “ मुत्प्रीत्यामोदसंमदाः” इति हैमः । 'दिश्यात् ' वितीर्यात् । 'दिश' अतिसर्जन इति धातोः कर्त्तर्याशिषि परस्मैपदे प्रथमपुरुषस्यैकवचनम् ॥ ३४ ।।
नेश्वराने विनति. લેકાર્થ-જિનેની જે અનંત બળવાળી (અથવા શ્રેષ્ઠ) પતિએ, પ્રાણુઓના સમૂહ માટે હિતકારક સાધનને ઉપદેશ કર્યો છે, તે જિદ્રશ્રેણી અત્યંત શેભિતાં–મનહર વિવિધ પ્રકા
For Private And Personal Use Only