________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५० ) वजेति-(हे ) · वज्राकृशि !' देवि !। हे इत्यामन्त्रणाऽभिव्यक्तये । “हे है व्यस्तो समस्तौ च, हूतिसम्बोधनार्थयोः” इति विश्वः। अङ्कुशकुलिशभृत्' अङ्कुशश्च शृणिः कुलिशञ्च वनं तद् बिभर्ति तस्याः सम्बोधनम् । ' स्वायत्यागे' आयश्च-अर्थस्याऽऽगमः, त्यागश्चदानं सुष्टु-शोभनौ, आयत्यागौ यस्याः सा तत्संबोधनम् । अतिमत्ते' अतिशयेन मत्तस्तस्मिन्-मदाऽन्विते, 'मदी' हर्षग्लेपनयोरिति मद्धातोः 'क्तक्तवतूनिष्ठेति' क्त प्रत्यये 'रदाभ्यां निष्ठातो नःपूर्वस्य च दः' (पा० ८-२-८२) इति सूत्रेण तकारस्य नत्वे प्राप्ते ' न ध्याख्यापू मूछिमदा (पा० ८-२-५७) इति सूत्रेण निषिद्ध मत्त इति सिद्धमन्यथा मन्न इत्यनिष्टापत्तिःस्यादिति बोध्यम् । 'शशधरकरश्वेतभासि' शशधरस्य-चन्द्रस्य कराः-रश्मयस्तद्वच्छेता-उज्ज्वला भा:कान्तिर्यस्य तस्मिन् । “करः शुण्डारश्मिहस्ते, द्वित्वसंज्ञाघनोपले । बलौ नक्षत्रसंज्ञायां, प्रत्यये कारके त्रिषु” इति शब्दसिन्धुः ‘स्वायत्या' स्वस्य आयत्या-आयामेन कृत्वा । “ दैय॑मायाम आनाहः, परिणाहो विशालता । आयतिश्च” इति केशवः । ' अगे' सानुमतीव गिरितुल्य इत्यर्थः । 'अतनुमदवने' अतनु-न तनु अतनु. प्रभूतं मदवनं मद एव वनं-दानवारि यस्य यस्मिन् वा तस्मिन् । "जीवनं भुवनं वनं" इत्यमरः । अथवा अतनुमदरूपं वनं-काननं यस्य सः श्यामकत्त्वात् , तथा च गिरिप्राये इति विशेषणं संगच्छते " वनं प्रस्रवणे गेहे, प्रवासेऽम्भसि कानने” इति हैमः। 'द्विपेन्द्रे' गजेन्द्रे । 'अध्यारूढे !' अध्यासीने!। 'अमतारातिमत्ते! 'अरातिमतो-विपक्षसहितस्य भावः-अरातिमत्ता, सा न मता-अनभिप्रेता यया सा तत्सम्बोधनम् । सकलविरोधितोद्भेदनादितिभावः। हेमतारा' सुवर्णोज्ज्वला । ' त्वं' भवती । 'तनुमदवने' तनुमतां-देहिनामवनेरक्षणे ' प्रयत्नं ' प्रकृष्टं यत्नं । 'विधत्स्व' कुरुष्व । ‘डुधाञ्' धार.
For Private And Personal Use Only