________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
હોવાને લીધે) અત્યંત આયામ–દીર્ઘતાવડે શોભતા (અથવા મદનકામ, માયા અને રોગને નષ્ટ કરનાર, જન્મ અને મરણથી ખેદ પામેલા જીને, રોગ રહિત એવા સિદ્ધ (શિલારૂપી) વાસમાં જલદી નિવાસ કરાવનાર અને કામ તથા કપટના મહા શત્રુ એવા જિનંદ્રમતને (હે ભવ્યજનો!) તમે હર્ષથી હંમેશાં નમન કરે. . ૨૭
महामानस्याः स्तुतिः । दधति ? रविसपत्नं रत्नमाभास्तभास्वत्
नवधनतरवारिं वा रणारावरीणाम् । गतवति ! विकिरत्याली महामानसीष्टा
नवधनतरवारिं वारणारावरीणाम्
॥ २८ ॥
दधतीति । 'रविसपत्न' रवेः-सूर्यस्य सपत्नं-शत्रुभूतम् , प्रभाऽऽधिक्यात् । 'रत्नं' मणिं, “ रत्नं स्वजातिश्रेष्ठेऽपि, मगावपि नपुंसकं” इति मेदिनी । 'आभास्तभास्वन्नवघनतरवारिं' आभया-कान्त्या अस्तः-आक्षिप्तः भास्वान् सुर्यो येन सचासौ नवश्वासो घनश्च-मेघस्तद्वदतिशयेन वारि-जलं तेजस्तीक्ष्णता यस्मिन् , 'घन तरवारिं ' खड्गम् । “ तरवारिर्मतः खड्गः” इति धरणिः । " अथ चन्द्रहासः, करवालनिस्त्रिंशकृपाणखगाः । तरवारिकौक्षेयकमण्डलामा-असिरृष्टि-रिष्टी " ॥ इति हैमः। वा चशब्दार्थे । ' दधति ?' धारयमाणे ? । 'अरीणां' वैरिणां । 'रणाराव. रीणां' रणस्य-संग्रामस्य सम्बन्धिना आरावेण-ध्वनिना। रीणां' खिन्नाम् । ' आली ' श्रेणिम् । " आलिः सख्यावलीसेत्वनर्थेषु विशदाऽऽशये” इति हैमः । ' विकिरति !' विक्षिपति !। अथवा सिंहस्य विशेषणमेतत् ' वारणाऽरौ' वारणानां-जानां,
For Private And Personal Use Only