________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४२)
जिनमतप्रशंसादिशदुपशमसौख्यं संयतानां सदैवो
रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्ध (सिद्धि) वासे
ऽरुजि नमत मुदारं काममायामहारि ॥ २७ ॥ दिशदिति-संयतानां मुनीनां सदैव नित्यमेव । ' उरु' बृहत् । ' उपशमसौख्यं' प्रशमसुखम् । 'दिशत्' ददत् । ' उदारं' उदात्तं । " महेच्छे तूझूटोदारोदात्तोदीर्णमहाशयाः। महामना महात्मा च” इति हैमः। “ अथोमहेच्छेऽनुदार उदारोदातकावपि ॥" शद्ध रत्ना० 'काम' अत्यर्थम् । “ काममसूयाऽनुगमे, प्रकामेऽनुमतावऽपि " इति हैमः । ' आयामहारि' आयामेन आयतत्त्वेन हारि-मनोहरम् । “ दैर्ध्यमायाम आरोहः, परिणाहोविशालता" इत्यमरः । 'जननमरणरीणान्' जननं च मरणश्च ताभ्यां रीणान-खिन्नान (जीवानित्यर्थः) । " स्यन्ने रीणं स्नुतं सुतम् ।” इति हैमः । 'अरुजि' रोगरहिते, 'सिद्ध (द्धि) वासे' सिद्धिरेववासस्तस्मिन् सिद्धिस्थाने । 'वासयत्' वासं कारयत्। 'काममायामहारि' कामश्च माया च तयोर्महारिमहाशत्रुरिव महाचक्रमिव वा, महावैरीभूतम् । अथवा काममायामहारि, कामश्च माया च आमोरोगश्च तान हरतीत्येवं शीलं । 'जिनमतं' अर्हत्सिद्धान्तं, “मतं स्यात् संमतेऽर्चिते” इति हैमः। 'मुदा' हर्षेण । ' अरं' शीघ्रं । काममत्यर्थं सदैव-नित्यं । ' नमत ' नमस्कारं कुरुत. अत्र सदैव काममरमिति क्रियाविशेषणेऽपि योज्यन्ते । २७
જિનમત પ્રશંસા પ્લેકાર્થ–સંચમિ જેને હંમેશાં ઉત્તમ પ્રકારનું ઉપશમ સુખ આપનાર, તેમજ અનેક વિષયના વિવેચનથી ભરપૂર
For Private And Personal Use Only