________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
( ३९ )
श्रीसुपार्श्वजिनस्मरणम्
कृतनति कृतवान् यो जन्तुजातं निरस्त -- स्मरपरमदमायामानबाधाय शस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व,
स्मर परमदमाया मानवाधाय शस्तम् ॥ २५ ॥
मालिनी ( ८-७ »)
9
कृतनतीति - ' यः स्वामी । जन्तुजातं ' जन्तूनां - प्राणिनां जातं - समूहं । " जातं जात्योघजनिषु ” इति हैमः । ' कृतनति ' कृता - विहिता नतिः - प्रणामो येन यस्मै वा तत् । ' निरस्तस्मरपरमदमायामानबाधायशः ' स्मरश्चकामः परे च शत्रवः मदश्च जात्याद्यष्टविधोगर्व: माया च कापट्यं मानश्चाहङ्कृतिः बाधा च पीडा अयशश्वापकीर्त्तिस्तानि निरस्तानि - ध्वस्तानि यस्य येन वा तत् । ' कृतवान् ' चकार । कृधातोः ' क्तक्तवतू निष्ठा, ( पा० १- १ - २६ ) इति सूत्रेण भौतकालिकक्तवतुप्रत्यये प्रथमैकवचनम् । ' तं ' तथाभूतं । ' शस्तं ' प्रशस्तं । ' सुपार्श्व ' शोभनौ पार्श्वावस्य सुपार्श्वः, यद्वा गर्भस्थे भगवति जनन्यपि सुपार्श्वाऽभूदिति सुपार्श्व - नामानं प्रभुं । " अस्मिन् गर्भस्थिते माता, सुपार्श्वा समभूद् यतः । ततः सुपार्श्व इत्याख्यां करोतिस्म पिता प्रभोः ॥ ' हे मानव !' मनुज ! बवयोरैक्यन्तु यमकवशात् ' परमदमायाः परमोदमः - इन्द्रियाणां निग्रहो यस्याः सा तस्याः । ' चित्तवृत्तेः मनोव्यापारस्य ' अविचलत्वं ' एकाग्रताम् । ' सुचिरं ' प्रभूतकालं यथास्यात्तथा तन् । आधाय ' विधाय । आङ् पूर्वकात् ' धा धातोः समानकर्तृकयोः पूर्वकाले ' ( पा० ३ - ४ - २१ ) इति सूत्रेण तत्वाप्रत्ययस्य स्थाने ' समासेऽनञ् पूर्वे क्त्वोल्यपू ( पा०
"
"
6
6
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only