________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३६ ) श्रीसिद्धान्तस्वरूपम्श्रान्तिच्छिदं जिनवरागममाश्रयार्थ
माराममानम लसन्तमसङ्गमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्त
माराममानमलसन्तमसं गमानाम् ॥ २३ ॥ श्रान्तिच्छिदमिति-श्रान्तिच्छिदं' श्रान्ति-श्रममर्थात्संसारखेर्दै छिनत्ति-नाशयतीति श्रान्तिच्छित्तम् । ' असङ्गमानां' नास्ति सङ्गमः-भवसंबन्धो येषां तेषां मुनीनां । 'आश्रयार्थ' संश्रयहेतोः। 'आरामं आराममिवाराममुद्यानम् । “ आरामः स्यादुपवनं' कृत्रिमं वनमेव यत् ” इत्यमरः । ‘लसन्तं ' शोभमानं । 'गमानां' पूर्वोक्तलक्षणानां-सदृशपाठानामालापकानामितियावत् । 'अग्रिमं-प्रधान सर्वोत्कृष्टत्त्वात् , 'धाम' स्थानं गृहं वा । “ धाम देहे गृहे रश्मी स्थाने जन्मप्रभावयोः” इतिमेदिनी 'भवसरित्पतिसेतुं' भवः-संसारः स एव सरित्पतिः-सागरस्तस्योत्तरणे सेतु-पद्याभूतम् । “ सेतो पाल्यालिसंवराः” इतिहैमः। 'अस्तमाराममानमलसन्तमसं' मारश्च कामः, आमश्च रोगः, मानश्च गर्वो मलश्च कर्ममलस्त एव मलीमसात्मकत्त्वात् सन्तमसं ध्वान्तं, तद् अस्त-निरस्तं येन तम् । “ मदनोमन्मथोमारः, प्रद्युम्नोमीनकेतनः” इत्यमरः । “ मधुदीपमारौ मधुसारथिः स्मरः” इतिहमः। " आम आमय आकल्यमुपतापोगदः समाः” इतिहैमः। 'जिनवरागम' जिनवराणां-तीर्थकराणामागमस्तंजिनेन्द्रसिद्धान्तं ' आगमः-शास्त्र आयतौ” इति विश्वः ‘ आनम' प्रणम-प्रणाम कुर्वित्यर्थः ॥ २३ ॥
શ્રી સિદ્ધાન્ત સ્વરૂપ– લેકાર્થ– અનાદિ કાળથી ભવભ્રમણ કરવા વડે ઉત્પન્ન
For Private And Personal Use Only