________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५-कालीदेव्यै प्रार्थनानगदाऽमानगदा मा
महो! महोराजिराजितरसा तरसा । घनघनकाली काली
बतावतादूनदूनसत्रासत्रा ॥ २० ॥ नगदेति- नगदा नगान-गिरीन् द्यति-खण्डयतीति नगदापर्वतभेदिनी । — अमानगदा' अमाना-प्रमाणहीना गदा-प्रहरणविशेषो यस्याः सा । ' अहो ! ' इत्यामन्त्रणे विस्मये वा निपातः । "अहो बताऽनुकम्पायां, खेदाऽऽमन्त्रणयोरपि ” इति हैमः । ____ ' महोराजिराजितरसा' महसां-तेजसां राजिभिः-श्रेणिभिः राजिता-शोभिता रसा-भूमिर्ययासा, “राजिलेखाततिर्वीथी, मालाssल्यावलिपतय;" । इति हैमः। “ सर्वंसहा रत्नगर्भा, जगती मेदिनी रसा"। इति हैम्याम् । 'घनघनकाली ' घना:-सान्द्रा ये घना:जीमूतास्तद्वत् काली-श्यामा। ' उनदूनसत्रासत्रा' ऊना:-संपदादिभिः स्तोकाः दूनाः-परितप्ताः सत्रासाः--भयसहिताश्च ये प्राणिनस्ताँस्त्रायतेपालयति सा। ऊना अपूर्णा धनैरितिशेषः, अतएव दूना दुःखितास्त एव सत्रं-धनं यस्याः सा, सत्रा सुशीलेति वा । “ सत्रं गृहं धनं सत्रं, सत्रं दानमिहेरितम् । सत्रं नाम वनं सत्रं, सत्रं सच्चरितं मतम" ॥ १ ॥ इत्यनेकार्थः । — काली' कालीनाम्नी देवी । 'मां' ' बत' इति विस्मये “बत खेदे कृपानिन्दा-सन्तोषाऽऽमन्त्रणाऽद्भुते ।” इति विश्वलोचनः । 'तरसा' वेगेन बलेन वा ' अवतात्' रक्षतु, अत्रबवयोरैक्यन्तु यमकवशादवसेयम् । “ यमकश्लेषचित्रेषु, बवयोर्डलयोन भित् । नाऽनुस्वारविसर्गों च, चित्रभङ्गाय सम्मतौ॥१॥" इति वचनात् ॥ २० ॥
For Private And Personal Use Only