________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(મુનિવરને) ભયમાંથી બચાવે છે ૧૭છે આ લેકમાં તથા તે પછીના ત્રણ કલાકમાં આર્યાગીતિ નામને છંદ છે. તેનું લક્ષણઆર્યાના પૂર્વાર્ધના અંતમાં એક ગુરૂ ઉમેરો વળી ઉત્તરાદ્ધ પણ તેજ પ્રમાણે હોય છે.
समस्तजिनवराणां प्रार्थना
विधुतारा ! विधुताराः !
सदा सदाना ! जिना ! जिताघाताघाः !। तनुतापातनुतापा!
हितमाहितमानवनवविभवा ! विभवाः! ॥१८॥ विधुतारेति-विधुताराः ! ' अरीणां-रिपूणां, समूह आरं, समूहार्थेऽण् प्रत्ययः, विधुतं-निरस्तमारं यैस्ते, अत्राऽऽरपदेनेन्द्रियरूपाः शत्रवोग्राह्यास्तेषां दुर्जयत्त्वात् । अथवा अरणमारं-भ्रमणं संसारेऽटनं, विधुतं निवारितं यैस्ते तथाभूताः । 'विधुताराः ' विधुः शशाङ्कस्तद्वत्तारा उज्ज्वलाः ! सर्वथा कर्ममलविगमात् 'सदा' निरन्तरं । सदानाः ' दानेन सहिताः ! सांवत्सरिकदानदायित्त्वात् " तिन्नेव य कोडिसया, अट्ठासीई य हुंति कोडीओ । असिइं च सयसहस्स, एयं संवच्छरे दिन्नं ॥ १ ॥ सर्वेतीर्थकृतोदीक्षाकालाप्राक्प्रत्यहं सूर्योदयादारभ्याऽऽभोजनमष्टलक्षाऽधिकैककोटी सुवर्णटङ्कानां याचकेभ्योऽनिवारितमुद्घोपणापूर्वकं वितरन्ति, वार्षिकञ्चतदानमष्टाशीत्यधिकशतत्रयकोट्यशीतिलभप्रमितं भवति । 'जिताघातायाः !' जितं पराजितमघातं घातवर्जितमधं पापं यैस्ते । 'अपातनुतापाः !' अपगतोऽतनुर्महान् तापः सन्तापो येषां तत्सम्बोधनम् । ' आहितमानवनवविभवाः !' आहितः-प्रकटीकृतो मानवानां नवः प्रत्यग्रो
For Private And Personal Use Only