________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समस्तजिनेन्द्राणां स्तुतिः। ते वः पान्तु जिनोत्तमाःक्षतरुजो नाचिक्षिपुर्यन्मनो
दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयाश्चक्रुः पतन्त्योऽम्बरा- .. दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥
तइति- यन्मनः' येषां मनोयन्मनश्चेतः । “विभ्रमरोचिताः,' विभ्रमैर्धसमुद्भवैर्विलास:-हावभावादिकटाक्षाक्षेपैः, रोचिताः-शोभिताः। यदुक्तम्-" हावोमुख विकारः स्या-द्भावश्चित्तसमुद्भवः । विकारोनेत्रजोज्ञेयो-विभ्रमोभ्रूसमुद्भवः । ” इतिकेचित्, योषितां यौवनजोविकारोविभ्रमइत्यन्ये, मदहर्षरागजनितो विपर्यासो विभ्रमइत्यपरे । 'सुमनसः, ' सुष्ठुमनोयेषां ते सुमनसः-शोभनहृदयाः । 'मन्दारवाः,' मन्दः आरवः येषां ते मन्दारवाः-मृदुरवाः । 'राजिताः,' विभ्राजिताः । ' दाराः,' दारयन्ति, दीर्यन्ते एभिरितिवा दाराः, दारशब्दः पुंसिबहुवचनान्तः। "भार्याजायाऽथ 'भूम्नि, दाराःस्यात्तुकुटुम्बिनी ।" इत्यमरः । क्वचिदाबन्तोऽपि प्रयुक्तः । “ क्रोडा हावा तथा दारा, त्रयएते यथाक्रमम् । क्रोडे हावे च दारेषु, शब्दाः प्रोक्ता मनीषिभिः॥” वनिताः, कर्तृरूपाः। 'न' नैव, 'आचिक्षिपुः'क्षोभयामासुः । — यत्पादौ च, ' येषां पादौ यत्पादौ-जिनचरणौ । 'सुरोज्झिताः,' सुरैरमरैरुज्झिता-उत्सृष्टाः । 'अम्बरात्,' नभसः । पतन्त्यः। 'आराविभ्रमरोचिताः, आराविणः' शब्दायमाना ये भ्रमराःषट्पदास्तेषामुचिता-योग्याः । अनेन सौरभाऽतिशयःसूचितः। 'मन्दारवाराजिताः,' मन्दाराणां-देवतरुकुसुमानां वारैः-समूहैरजिताअनुल्लञ्चनीयाः, “ पञ्चैते देवतरवो-मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च, पुंसिवाहरिचन्दनम् ” ॥ इत्यमरः । “ समूहवाचको
For Private And Personal Use Only