________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४ रूपादि वद्व्योम गुणो भवे नो शब्दोऽस्मदादींद्रिय वेदनत्वात् ॥ रूपादिवत्पौद्गलिकस्तदिद्रि ।
Acharya Shri Kailassagarsuri Gyanmandir
यार्थत्वतः पौगलिकत्व सिद्धिः ॥ ५९ ॥ अन्योन्यापेक्ष वर्णानां निरपेक्षा च संहतिः ॥ पदपदैरेव कृतं वाक्य स्येदंहि लक्षणं ॥ ६० ॥ स्वस्वाभाविक सामर्थ्य समयाभ्यां निवेदितं सदर्थस्यप्रतिपत्ति कारणं शब्द उच्यते ॥ ६१ ॥ तुर्वाक्यार्थ विज्ञाने आकांक्षा योग्यता तथा ॥ सन्निधिश्चेति विज्ञेयं त्रयं साधारणं मतं ॥ ६२ ॥ अभिव्यक्तेन संकेतां जातिव्यक्त्युभयाश्रितात् । वाच्यवाचक भावेन सोर्थस्य प्रतिपादकः ॥ ६३ ॥ शब्दार्थयोः प्रतिपत्ति । लक्षणा व्यंजनादिका ॥ ध्वस्तात्पर्य विज्ञानं । बहुधाच बहुश्रुतैः ॥ ६४ ॥ स्यादस्तिभेद एवैकः स्यान्नास्तीतिद्वितीयकः । स्यादस्तिनास्तिभेदोन्य स्तूयवक्तव्य संगतः ॥६५॥ स्यादस्तितोप्यवक्तव्यं स्यान्नास्तिपदतोपिवा । स्यादस्तिनास्त्यवक्तव्यं । सप्तमोभेदएवच ॥ ६६ ॥ स्यादस्तिनास्त्यवक्तव्यै रेकद्वाभ्यां विमिश्रितैः । भंगा विधिनिषेधाभ्यां स्यात्पदात्सप्तविश्रुताः ॥६७॥
For Private And Personal Use Only