________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३ चतुर्घायंप्रागभावः प्रध्वंसाभाव एव वा ॥ तथेतरेतराभावोऽत्यंताभावश्चतुर्थकः ॥ ४९ ॥ यन्निवृत्तौहिकार्यस्य समुत्पत्तिः प्रजायते । प्रागभावः समृत्पिंडो यथा कुंभस्य कथ्यते ॥ ५० ॥ यदुत्पत्तौहिकार्यस्य व्ययोऽवश्यं द्वितीयकः ।
कलशस्ययथाजातं यत्कपालकदंबकम् ॥ ५१ ॥ स्वरूपान्तरतःस्त्रीय रूपव्यावृत्तिरिष्यते । स्वस्वरूपव्यवच्छेदः । सचान्यापोहनामतः ॥ ५२ ॥ कुंभस्वभावव्यावृत्ति यथास्तंभस्वभावतः । इतरेतरनामातु तार्त्तीयकतयोदितः ॥ ५३ ॥ तादात्म्यपरिणामस्य निवृत्तिस्तु त्रिकालतः सोऽत्यंताभावएवायं चेतनाचेतनेयथा ॥ ५४ ॥ आप्तस्यवचनादावि भूतमर्थस्य वेदनं
आगमस्तूपचाराच । सआप्तवचनात्मकः ॥ ५५ ॥ अभिधेयं यथावस्तु यो जानाति यथास्थितं यथा ज्ञानं चाभिधत्ते सआप्त इति विश्रुतः ॥ ५६ ॥ सधा लौकिक वक्ता - दिमो लोकोत्तरो जिनः ॥ अविसंवादि वचनम् । तस्यतस्माद्ध्वनिः स्मृतः। ५७॥ तद्वचनं वर्णपद वाक्यात्मक मुदीरितम् ॥ अकारादिः पौगलिको वर्णः शब्दः पुनः स्मृतः ॥५८॥
For Private And Personal Use Only