________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्पुनः साध्यधर्मस्य पूर्वयोगेनभाषितम् तत्तस्मादमिरत्राय मेतन्निगमनं स्मृतं ॥ ३७॥ यथामिमानयं देशः प्रोच्यते पक्षधर्मता धूमवत्त्वाद्धेतुवाक्य मनुमानं परार्थकम् ॥ ३८॥ य एवं च सएवंतौ दृष्टान्तोपनयावुभौ पाकस्थानं निगमनं मंदधीसिद्धयेत्रयं ॥ ३९॥ प्रकाश्यते साधन धर्मसत्ता तस्यांकृता साध्य सुधर्मसत्ता साधर्म्य दृष्टान्त इति प्रदिष्टो यत्रास्तिभूमौ दहनस्तुतत्र ॥ ४०॥ साध्याभावे साधनस्याप्यभावो वैधोक्तौ वै स दृष्टान्त एषः॥ शौचिः केशाभावतोम्याप्यभावो। धूमस्यास्मिन ज्ञेय एव हृदे सः॥४१॥ प्रयोगतोपिद्विविधः सहेतु स्तथोपपत्तिस्तुयदन्वयः स्यात् ।। ततोतिरिक्त स्तु तथान्यथानुपपत्ति संज्ञो व्यतिरेक एव ॥ ४२ ॥ देधोपलब्ध्यनुपलब्धिभिदाहि हेतुः साध्यंतयोविधि निषेध विशेष सिद्धिः।
For Private And Personal Use Only