________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||
२० स्वार्थानुमानं स्यात्र्यं । धर्मी साध्यं च साधनम् ॥ साधनात्साध्यसंसिद्धि नुमान प्रयोजनम् ॥ २८ ॥ 'साध्यधर्मविशिष्टेपि पक्षत्वं धर्मिणि श्रुतम् ॥ अन्यथानुपपयैक लक्षणोहेतुरिष्यते ॥ २९ ॥ सद्धेतोर्ग्रहणं तथा स्मरणकं व्याप्तेस्तयोः संभवम् साध्यज्ञानमतोऽनुमानकमिदं स्वार्थसुधीभिर्धृतं साध्यत्वंचतथाप्रतीतमितितत्त्रेधाश्रुते विश्रुतं किंत्वस्मादनिराकृताद्वयमिदंचा भीप्सितात्तत्रयं॥३०॥ कृशानुमानयंदेशः प्रोच्यते पक्षधर्मता
हेतूदितं धूमवत्वादनुमानं सुधी हितम् ॥ ३१ ॥ हेतु प्रयोगतोद्वेधा तथोपपत्तिरन्वयः अन्यथानुपपत्तिस्तु व्यतिरेकः पुरोदितः ॥ ३२ ॥ परस्मैप्रतिपाद्यत्वात्प्रत्यक्षादेः परार्थता तथैवमनुमानस्य सर्वत्रैवं विभावना ॥ ३३ ॥ हेतोर्वचनतः स्वार्थ पक्षहेत्वोः परार्थकं बालव्युत्पत्तिसिद्ध्यर्थं पंचावयवमीरितम् ॥ ३४ ॥ प्रतिबंधप्रतिपत्ते रास्पदं यस्य लक्षणं देधा साधर्म्य वैधर्म्यभेदाद्दृष्टान्त एवसः ॥ ३५ ॥ साध्यधर्मिणि सद्धेतो रुपसंहरणं तथा ॥ धूमश्चात्र प्रदेशेऽयं तस्मादुपनयः स्मृतः ॥ ३६ ॥
For Private And Personal Use Only