________________
S
anna Kendre
www.kobatem.org
Acharya Son Kailasagerul Gyanmandie
संसारस्वरूप
जैन सूक्त રૂા .
继器密密密密地聯密佛聯崇善路器密密佛牌佛佛號密密
अविद्यायां रात्रौ, चरति वहते मूर्ध्नि विषयम् , कषायव्यालौघं क्षिपति विषयास्थीनि गले । महादोषान् दन्तान् प्रकटयति वक्रस्मरमुखो, न-विश्वासार्होऽय, भवति भवनक्तश्चर इति ॥ ९॥ जना लब्ध्वा धर्मद्रविणलवभिक्षां कथमपि, प्रयान्तो वामाक्षीस्तनविषयदुर्गस्थिति कृता । विलुटयन्ते यस्यां कुसुमशरभिल्लेन बलिना, भवाख्यां नास्यामुचितमसहायस्य गमनम् ॥ १०॥ धनं मे गेहं मे मम सुतकलत्रादिकमतो, विपर्यासादासादितविततदुःखा अपि मुहुः । जना यस्मिन् मिथ्या सुखमदभृताः कूटभूधना, मयोऽयं संसारस्तदिह न विवेकी प्रसजति ॥ ११ ॥ प्रियास्नेहो यस्मिन् निगडसदृशो यामिकमटो-पमः स्वीयो वर्गों धनममिनर्व बन्धनमिव । मदामेध्यापूर्ण व्यसनबिलसंसर्गविषयम् , भवः कारगेहं तदिह न रतिः क्वापि विदुषाम् ॥१२॥ महाक्रोधो गृध्रोऽनुपरति शृगाली च चपलीला, स्मरोलको यत्र प्रकटकटुशब्दः प्रचरति । प्रदीप्तः शोकाग्निस्ततमपयशो भस्म स्मरति, श्मशानं संसारस्तदभिरमणीयत्वमिह किम् ॥ १३ ॥ यस्प गम्भीरमध्यस्याऽज्ञानवजमयं तलम् । रूद्धा व्यसनशैलौघैः पन्थानो यत्र दुर्गमाः ॥ १४ ॥ पातालकलशा यत्र, भृता तृष्णामहानिलेः । कषायांश्चित्तसङ्कल्पवेलावृद्धि वितन्वते ॥१५॥ स्मरौर्वाग्निचलत्यन्तर्यत्र स्नेहेन्धनः सदा । यो घोररोगशोकादि मत्स्यकच्छपसकुलः ॥ १६ ॥ दुर्बुद्धिमत्सदोहैविधुदुर्वातगर्जितैः । यत्र सांयात्रिका लोकाः पतन्युत्पातसङ्कटे ॥ १७॥ ज्ञानी तस्माद्भवाम्भोधेर्नित्योद्विग्नोऽतिदारुणात् । तस्य सन्तरणोपायं सर्वयत्नेन कासति ॥ १८॥
For Private And Personal Use Only
带带带带亲亲亲亲带带略带张张张张张亲亲亲亲亲游
॥३८॥