________________
Shri Mahavir Jain Aradhana Kendra
***********
www.kobatirth.org
८४ संसारस्वरूपम्
आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते । पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् ॥ १ ॥ आधिव्याधिजरामृत्युज्वालाशतसमाकुलः । प्रदीप्ताङ्गारकल्पोऽयं, संसारः सर्वदेहिनाम् ॥ २ ॥ त्रि पर्व १, श्लो. ५५६ जन्मरोगजराशोकमृत्युदौःस्थ्याद्युपद्रवैः । व्याकुलेऽत्र भवे दुःखमेव प्रायो भवेद्विशाम् ॥ ३॥ उ० पृ० २०४ (आ. स.) अस्मिन्नसारे संसारे, निसर्गेणातिदारुणे । अवधिर्न हि दुःखानां, यादसामिव वारिधौ ॥ ४ ॥ अमरचंद्रसूरि स्फूर्जल्लोभकरालवक्त्रकुहरो हुङ्कारगुआरवः, कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् ।
स्वैरं यत्र सम्भ्रमीति सततं, मोहाह्वयः केसरी, तां संसारमहाटवीं प्रतिवसन्को नाम मन्तुः सुखी १ ॥५॥ वै. लो. ९० इतः कामौर्वाभिर्ज्वलति परितो दुःसह इतः पतन्ति ग्रावाणो विषयगिरिकूटाद्विघटिताः । इतः क्रोधावर्ती विकृतितटिनीसङ्गमकृतः, समुद्रे संसारे तदिह न भयं कस्य भवति ॥ ६ ॥ प्रियाज्वाला पत्रोद्वमति रतिसन्तापतरला, कटाक्षान् धूमौधान् कुवलयदलश्यामलरुचीन् । अथाङ्गान्यङ्गाराः कृतबहुविकाराश्च विषया, दहन्त्यस्मिन् वह्नौ भववपुषि शर्म क्व सुलभम् १ ॥ ७ ॥ गले दत्वा पाशं तनयवनितास्नेहघटितं, निपीड्यन्ते यत्र प्रकृतिकृपणाः प्राणिपशवः । नितान्तं दुःखार्त्ता विषयविषयैर्घातकभटैर्भवः सूनास्थानं तदहह महासाध्वसकरम् || ८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir