________________
ShiMahayeJainrachanaKendra
www.kobathrtm.org
Achan Kailas
a nmandi
柴柴柴柴柴泰泰泰泰幣盤整器器泰泰泰泰泰张柴燃燃
तैलपात्रधरो यद्वद राधावेधोद्यतो यथा । क्रियास्वनन्यचित्तः स्याद् भवभीतस्तथा मुनिः ॥ १९ ॥ वाचकयशो. चि.
८५ इन्द्रियविषयस्वरूपम् बिभेषियदि संसारान् मोक्षप्राप्तिं च कांक्षसि । तदेन्द्रियजयं कर्तु, स्फोरय:स्कारपौरुषम् ॥१॥ (ज्ञानसार) दुःखद्विद सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ २॥ कलरिभितमधुरगान्धर्वतूर्ययोपिद्विभूषणरवाद्यैः । श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ॥ ३ ॥ गतिविभ्रमेगिताकारहास्यलीलाकटाक्षविक्षिप्तः। रूपावेशितचक्षुः शलभ इव विपद्यते विवशः॥ ४ ॥ स्नानाङ्गरागवतिकवर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को, मधुकर इव नाशमुपयाति ॥५॥ मिष्टानपानमांसौदनादि, मधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव नाशमुपयाति ॥ ६॥ शयनासनसम्बाधनसुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढः ॥ ७॥ एकैकविषयसङ्गाद्रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पश्चेन्द्रियवशातः ॥ ८॥ यस्मिन्निन्द्रियविषये शुभमशुभं वा निवेशयति भावम् । रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥ ९॥ प्रश०
८६ चतुर्गतिगमनागमनसूचकसूक्तानि स्वर्गच्युतानामिह जीवलोके, चत्वारि नित्यं हृदये वसन्ति । दानप्रसंगो मधुरा च वाणी, देवार्चन सद्गुरुसेवनं च ॥१॥
张张继器器器遊號费藩晓张继“蒸發器继器鉴號樂器资
For Private And Personal use only