________________
Shn Mahavir Jain Aradhana Kendra
जैन सूक्त ० ॥३६॥
***
www.kobatirth.org
७५ परद्रोहः
ताडनं छेदनं क्लेशकरणं वित्तबन्धनम् । परेषां कुरुते यत्तु परद्रोहः स उच्यते || १|| मानसो० अ० २ श्लो० ३८ पैशून्यं परवादं च, गालिदानं च तर्जनम् । मर्मोद्घाटं विधत्ते यत्, परद्रोहः स उच्यते ॥ २॥ मा० अ० २, श्लो. ३९ तस्मात् परकृतो द्रोहो यश्वातीव सुदुःसहः । तस्मान्नरकदं घोरं, परद्रोहं विवर्जयेत् ॥३॥ मानसो० अ. २ श्लो० ४१ ७६ पैशून्यम्
अन्यस्य तापनाद्यर्थ, पैशून्यं क्रियते जनैः । स्वात्मा हि तप्यते तेन, यदुतं स्यात्फलं च तद् ॥ १॥ हिं. पै. श्लो. ३ दानं च विफलं नित्यं, शौर्य तस्य निरर्थकम् । पैशून्यं केवलं चित्ते, वसेद्यस्याऽयशो भुवि ॥ २ ॥ हि. पै. श्लो. ४ दानशीलतपोभावै-—रस्यैधते वृषो भुवि । यस्य मनोवचः कायैः, पैशून्यं नाभिसंश्रयेत् ॥ ३॥ हि. पै० श्लो० २ ७७ रतिअरतिः
आदौ रागस्तत द्वेषस्तस्मात् क्लेशपरम्परा । तद्वदादौ रतिश्वारतिस्ततः कर्मबन्धनम् ॥ १ ॥ हिं. रति० श्लो० २ ७८ परपरिवादः
वक्तुं नैव क्षमा जीह्वा, यदि मूकस्य तद्वरम् । परं परापवादं च, जंजप्यते न तद्वरम् ॥१॥ हि. प. श्लो. २ परपरिभवपरिवादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥२॥ प्र. श्लो. १०० सर्वमदस्थानानां, मूलोद्घातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्व संत्याज्यः ॥३॥ प्र. लो. ९९
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
७५ परद्रोह
॥ ३६॥