________________
Shi Mahavir Jain Aradhana Kendis
****************
www.kobatirth.org:
जानन्ति कामानिखिलाः ससंज्ञा, अर्थ नरा केऽपि च केऽपि धर्मम् ।
जैनं च केचिद् गुरुदेवशुद्धं, केचित् शिवं केऽपि च केऽपि साम्यम् ॥ २ ॥ अ. ४ श्लो. २५
शत्रौ मित्रे तृणे स्त्रेणे, स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे, भवे मोक्षे समाशयः ॥ ३ ॥ त्रि. प. १०स. ३ श्लो. ४३ स्वागमं रागमात्रेण, द्वेषमात्रात्परागमम् । न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा ॥४॥ ज्ञा. म. श्लो. ७ पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ॥ ५ ॥ अष्टक (हरिभद्रसूरि ) न साम्येन विना ध्यानं, न ध्यानेन विना च तत् । निष्कम्पं जायते तस्माद्, द्वयमन्योऽन्यकारणम् ||६|| यो.च.प्र. श्लो. ११४ भावनाभिरविश्रान्तमिति भावितमानसः । निर्ममः सर्वभावेषु, समत्वमवलम्बते ॥७॥ यो. च. प्र. श्लो. ११० प्रणिहन्ति क्षणार्धेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥ ८ ॥ यो. च. प्र. श्लो. ५१ रे रे चित्त कथं भ्रातः प्रधावसि पिशाचवत् । अभिन्नं पश्य चात्मानं, रागत्यागात्सुखी भव ॥ ९ ॥ ७३ कलहः
स्तोकोऽप्यग्निर्दहत्येव, काष्टादिप्रभूतं घनम् । क्लेशलेशोऽत्र तद्वच्च, वृद्धितस्तनुदाहकः ॥ १ ॥ हि. क. श्लो. २ आत्मानं तापयेन्नित्यं तापयेच्च परानपि । उभयोर्दुःखकृत्क्लेशो, यथोष्णरेणुका क्षितौ ॥ २ ॥ हि. क. श्लो० ४ ७४ अभ्याख्यानम काचकागलदोषेण, पश्येनेत्रे विपर्ययम् । अभ्याख्यानं वदेखिहा, तत्र रोग क उच्यते ॥ १ ॥ हि. अ. श्लोक १
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir