________________
Shn Mahavir Jain Aradhana Kendra
*************
www.kobatirth.org.
यदीच्छसि वशीकर्तुं, जगदेकेन कर्मणा । परापवादशंसेभ्यश्वरंत गां निवारय ॥ ४ ॥ उ. स्तं. ९ व्या. १३३ ७९ मायामृषावादः
मनस्यन्यद् वचस्यन्यद् मायामृपा च सोच्यते । कदाऽपि सुखदा न स्याद्विश्व यथा पणांगना ॥ १ ॥ हिं. म. श्लो. १ ८० मिध्यात्वम्
अदेवे देवबुद्धिर्या, गुरुरगुरौ च या । अधर्मे धर्मबुद्धिव, मिथ्यात्वं तद्विपर्ययात् ॥ १॥ यो. पृ. ५८ श्लो. ३ (प्र. स.) मिथ्यात्वं परमो रोगो. मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुर्मिथ्यात्वं परमं विषम् ।। २।। यो. पृ.५८ प्र. स. नास्ति नित्यो न कर्ता च न भोक्तात्मा न निर्वृतः । तदुपायश्च नेत्याहुर्मिध्यात्वस्य पदानि षट् ॥ ३॥ अ. प्र. ४ श्लो. ६० स्वाध्यायेन गुरोर्भक्त्या, दीक्षया तपता तथा । येन केनोद्यमेनैव मिथ्यात्वशल्यमुद्धरेत् ॥ ४ ॥ हिं. मि. श्लो. ३ मिथ्यात्वत्यागतः शुद्धं, सम्यक्त्वं जायतेऽङ्गिनाम् । अतस्तत्परिहाराय यतितव्यं महात्मना ॥५॥ अ. प्र. ४ श्लो. ५९
८१ क्षमा
क्षन्तव्यो मन्दबुद्धीना-मपराधो मनीषिणा । न हि सर्वत्र पाण्डित्यं सुलभं पुरुषां क्वचित् ॥ १ ॥
नरस्याभूषणं रूपं, रूपस्याभरणं गुणः । गुणस्याभूषणं ज्ञानं ज्ञानस्याभूषणं क्षमा ॥ २ ॥ मणिरत्नमाला श्लो० ५५ अद्विष्टः सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः, समदुःखसुखः क्षमी ॥ ३ ॥ यतिधर्मसंग्रह पृ० ३०
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
***************
********