________________
Shi Mahavir Jain Aradhana Kendra
जैन सूक्त ० ॥ २८॥
******
www.kobatirth.org
अकरुणमवकृत्य द्राक् कृपाणेन निर्यद्वहलरुधिरधारं मौलिमावेदयामि || २२ ||
जीवितव्यं ददानेन दत्तं त्रिभुवनं ततः । हरता तत्तु सर्वस्वं हृतं शून्यीकृतं जगत् ॥२३॥ पा. सर्ग २ श्लो. ४८ यत्तु प्रत्युपकाराय फलमुद्दिश्य वा पुनः। दीयते हि परिक्लिष्टं तद् दानं राजसं स्मृतम् ॥ २४ ॥ पा. सर्ग ६ श्लो. ५४५ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तद्दानं तामसं स्मृतम् ॥ २५ ॥ पार्श्वनाथ च सर्ग ६, ५४६ धण सत्थवाहजम्मे, जं धयदाणं कयं सुसाहूणं । तकारणमुसमणि, तेलुक - पियामहो जाओ ॥ २६ ॥ करुणा दिन्नदाणो, जम्मंतरगद्दियपुन्नकिरियाणो । तित्थपरचक रिद्धि, संपत्ती संतिनाहोवि ॥ २७ ॥
दाऊण खीरदाणं, तवेण सुसिअंग साहुणो धणिअं । उणजनियरकारो, संजाओ सालिभदो वि || २८|| देवे. दान. पात्रे धर्मनिबन्धनं तदपरे प्रोद्यद्द्याख्यापकम् मित्रे प्रीतिविवर्धकं रिपुजने वैरापहारक्षमम् ॥
भृत्ये प्रीतिविवर्धकं नरपतौ सन्मानपूजाप्रदम्, भट्टादौ च यशस्करं विवरणं न क्वाऽप्यहो निष्फलम् ॥ २९॥ सि. प्र. दाद्रियनाशनं दानं, शीलं दुर्गतिनाशनम् । अज्ञाननाशिनी प्रज्ञा, भावना भवनाशिनी ॥ ३० ॥ सुभाषित सं० भीमः- मूर्खतपस्वी राजेन्द्र ! विद्वांश्च वृषलीपतिः । उभौ तौ तिष्ठत द्वारे, कस्य दानं प्रदीयते ॥ ३१ ॥ युधिष्ठिर:- सुखासेव्यं तपो भीम ! विद्या कष्टदुराचरी । विद्वांसं पूजयिष्यामि, तपोभिः किं प्रयोजनम् ।। ३२ ।। कृष्णः- न विद्यया केवलया, तपसा चापि पात्रता । यत्र वृत्तमुभे चेमे तद्धि पात्रं प्रचक्षते ॥ ३३ ॥
अभयं सुपत्तदाणं अणुकंपा उचिअं च कित्तिदाणं च । दोहिवि मुक्खो भणियो तिष्णेवि भोगादियं दिति ॥ ३४ ॥ उत्तमोऽप्रार्थितो दत्ते, मध्यमः प्रार्थितः पुनः । याचकैर्याच्यमानोऽपि दत्ते न त्वधमाधमः ॥ ३५ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
दानम्
॥ २८ ॥