________________
Shi Mahavir Jain Aradhana Kendis
******
www.kobatirth.org.
उपाश्रयो येन दत्तो मुनीनां गुणशालिनाम् । तेन ज्ञानाद्युपष्टम्भदायिना प्रददे न किम् ! ॥ ७ ॥ उ. सू. अ.१ पृ. १२ सुरर्द्धिः सुकुलोत्पत्तिर्भोगलब्धिश्च जायते । साधूनां स्थानदानेन क्रमान्मोक्षश्च लभ्यते ॥ ८ ॥ उ. अ. ३ पृ. १२ इयं मोक्षकले दाने, पात्रापात्रविचारणा । दयादानं तु सर्वज्ञैः, कुत्रापि न निषिध्यते ॥ ९ ॥ पा. स. ६ श्लो. ५४ चतुः सागरपर्यन्तां यो दधात्यृथिवीमिमाम् । एकश्च जीवितं दद्यात्तयोरभयदोऽधिकः ।। १० ।। क. श्लो. ६९ दीयते म्रियमाणस्य कोटिर्जीवितमेव च । धनकोटिं न गृह्णीयात्, सर्वो जीवितुमिच्छति ॥ ११ ॥ यो. लो. २७ अन्नदानात्परं नास्ति, विद्यादानं ततोऽधिकम् । अन्नेन क्षणिका तृप्तिर्यावज्जीवं तु विद्यया ॥ १२ ॥ ज्ञानवान् ज्ञानदानेन निर्भयोऽभयदानतः । अन्नदानात्सुखी नित्यो निर्व्याधिर्भेपिजाद् भवेत् ॥ १३॥ वि.स. ११ श्लो.८६३ व्याजे स्थाद्विगुणं वित्तं, व्यवसाये चतुर्गुणम् । क्षेत्रे दशगुणं प्रोक्तं, पात्रेऽनन्तगुणं भवेत् ।। १४ ।। उ. पृ. १२ श्लो. ४० फलं यच्छति दातुभ्यो, दानं नात्रास्ति संशयः । फलं तुल्यं ददात्येतदाचर्य त्वनुमोदकम् ।। १५ ।। उ. भा. २ पृ. १५० संपत्ती नियमः शक्ती, सहनं यौवने व्रतम् । दारिद्र्ये दानमत्यल्पमपि लाभाय जायते ॥ १६ ॥
पश्चाद्दत्तं परैर्दत्तं लभ्यते वा न लभ्यते । स्वहस्तेन च यदत्तं लभ्यते तन्न संशयः ॥ १७ ॥
मा मंस्थाः क्षीयते वित्तं, दीयमानं कदाचन । कृपारामगवादीनां ददतामेव सम्पदः ॥ १८ ॥ अदत्तदानाच्च भवेद्दरिद्री दरिद्रभावाद्वितनोति पापम् । पापं हि कृत्वा नरकं प्रयाति, पुनर्दरिद्री पुनरेव पापी ॥१९॥ दानं भोगोनाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न मुझे तस्य तृतीया गतिर्भवति ॥ २० ॥ कियदिदमधिकं मे यद् द्विजायार्थयित्रे, कवचमरमणीयं कुण्डले चार्पयामि ॥ २१ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir