________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
कर्णस्त्वचं शिबिर्मासं, जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि, नास्त्यदेयं महात्मनाम ॥ ३६ ॥ सू १. ६७-६८ नेव दारं पिहावेह, भुंजमाणो सुसावओ । अणुकंप । जिणिदेहिं, सडूढाणं न निवारिया ॥ ३७ ॥ सु. पृ.१८ श्लो. १५ पाकारेणोच्यते पापं, त्रकारखाणवाचकः । अक्षरद्वयसंयोगे, पात्रमाहुर्मनीषिणः (मनस्विनः) ॥ ३८ ॥ सु. सू. पू. २१ श्लो. २ मिथ्यादृष्टिसहस्रेषु, वरमेको झणुव्रती । अणुव्रतिसहस्रेषु, वरमेको महाव्रती ॥ ३९ ॥
महावतिसहस्त्रेषु, वरमेको जिनाधिपः । जिनाधिपसमं पात्रं, न भूतं न भविष्यति ॥ ४० ॥ सु. सू. पू. २२ श्लो. १७-१८ अनादरो विलम्बश्व वैमुख्यं विप्रियं वचः । पश्चात्तापश्च दातुः स्यात्, दानदूषणपञ्चकम् ॥ ४१ ॥ आनन्दाश्रूणि रोमा बहुमानं प्रियं वचः । तथानुमोदना पात्रे, दानभूषणपञ्चकम् ॥ ४२ ॥
६० शीलम्
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक् संयमो, ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता, सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ १॥ भ. नी. श्लो. ८० अमराः किङ्करायन्ते, सिद्धयः सहसङ्गता । समीपस्थायिनी संपच्छीलालङ्कारशालिनाम् ||२॥ उ. प्रा. भा. १ पृ. १८८ वरं प्रवेशो ज्वलिते हुताशने, न चापि भग्नं चिरसश्चितव्रतम् ॥
वरं हि मृत्युः सुविशुद्धचेतसो, न चापि शीलस्खलितस्य जीवितम् ॥ ३ ॥ सूत्रकृताङ्ग पत्र ६३,
यां चिन्तयामि सततं मयि सा विरक्ता, साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir