________________
ShiMahayeJainrachanaKendra
Achat
kail
a
nmandi
张张张张张张黎张泰张张张张张张张张张张张张柴柴
आकालमियमाज्ञा, ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः ॥ २७ ॥ दानं धर्मानभिज्ञेभ्यो वाचनादेशनादिना । ज्ञानसाधनदानं च, ज्ञानदानमितीरितम् ॥ २८ ॥ मिथ्याज्ञानं समस्तं तत् , इहलोकोपयोगि यत् । रागद्वेषादयो यस्मात् , प्रवर्धन्ते शरीरिणाम् ॥ २९ ॥ त्रि. दे. मअत्यज्ञः किलाज्ञाने विष्ठायामिव शूकरः । ज्ञानी निमजति ज्ञाने मराल इव मानसे ॥ ३० ॥ निर्वाणपदमप्येकं भाव्यते यन्मुहुर्मुहुः । तदेव ज्ञानमुत्कृष्टं निबन्धो नास्ति भूयसा ॥ ३१॥ स्वभावलाभसंस्कारकारणं ज्ञानमिष्यते । ध्याध्यमात्रमतस्त्वन्यत्तथा चोक्तं महात्मना ३२ ॥ स्वद्रव्य-गुण-पर्याय चर्या वर्या परान्यथा । इति दत्तात्मसन्तुष्टिपुष्टिज्ञानस्थितिमुनेः॥३३॥ मिथ्यात्वशैलपक्षच्छिज्ज्ञानदम्भोलिशोभितः । निर्भयः शक्रवद् योगी नन्दत्यानन्दनन्दने ॥ ३४ ॥ ज्ञान यानपात्रसमं ज्ञानं, बडतां भववारिधौ । मोहान्धकारसंहारे, ज्ञानं मार्तण्डमण्डलम् ॥ ३५॥ सुभाषित सं. "लो. ६२ ज्ञानस्य ज्ञानिनो वाऽपि, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नेश्व, ज्ञानघ्नं कर्म बध्यते ॥ ३६॥ सु. सं. "लो. ५६६ ज्ञानं कर्ममहीध्रभेदकुलिशं शंसन्ति मोहापह, ज्ञानं भूषणमङ्गिनां वरधनं ज्ञानं जगद्दीपनम् । एतत्तत्त्वमतत्त्वमेतदपरं ज्ञानेन विज्ञायते, लोकालोकविलोकनैकपटवः स्युर्ज्ञानदानाजनाः ॥ ३७॥
अज्ञान-७ अज्ञानतमसाच्छन्नो मूदान्तःकरणो नरः । न जानाति कुतो कोऽहं, क्वाहं गन्ता किमात्मकः ॥१॥
亲张晓晓路器晓晓樂器樂器器器鉴器器器器器器涨涨涨涨
For Private And Personal use only