________________
ShriMahavirain ApartmenaKendra
Acharya Sh Kailasagar
Gyanmandi
ज्ञान
एतस्मिन् सततं यत्नः, कुग्रहत्यागतो भृशम् । मार्गश्रद्धादिभावेन, कार्य आगमतत्परैः ॥ १५ ॥ अ. ना. श्लो० ८० झानाभ्यासः सदाकार्यों ध्यानेनाध्यनेन च । तपसो रक्षणं चैव, यदीच्छेद्वितमात्मनः ॥१६॥ तत्वामृत श्लो० ९ निःसङ्गो निर्ममः शान्तो, निरीहः संयमे रतः । यदा योगी भवेदन्तस्तत्वमुद्भासते तदा ॥ १७ ॥ यो. प्र.श्लो० २९ आत्मानमात्मना वेत्ति, मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रं, तज्ज्ञानं तच्च दर्शनं ॥१८॥यो. प्र० ४ श्लो० २ यदा सर्व परित्यज्य, निःसङ्गो निष्परिग्रहः । निश्चिन्तश्च चरेद् धर्म, ब्रह्म सम्पद्यते तदा ॥ १९ ॥आ. उ. काण्ड ७८ जानन्ति केचिन तु कर्तुमीशाः, कर्तु क्षमा ये न च ते विदन्ति । जानन्ति तचं प्रभवन्ति कर्तु, ते केपि लोके विरला भवन्ति ॥ २०॥ हृदयप्रदीप, श्लो. २ अवशेन्द्रियचित्तानां, हस्तिस्नानमिव क्रिया । दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ २१ ॥ ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः । अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते ॥ २२ ॥ उत्तराध्ययनसूत्रटीका (कमलसंयम) पृ. ७६ तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥२३॥ ज्ञानाद्विदन्ति खलु कृत्यमकृत्यजातं, ज्ञानाच्चरित्रममलं च समाचरन्ति । ज्ञानाच्च भव्यभविनः शिवमाप्नुवन्ति, ज्ञानं हि मूलमतुलं सकलश्रियां तत् ।। २४ ।। मूक्त. अधिकार ४३. 'लो. ६ ज्ञानदानेन जानाति, जन्तुस्तस्य हिताहितम् । वेत्ति जीवादितचानि, विरतिं च समश्नुते ॥ २५ ॥ ज्ञानदानादवामोति, केवलज्ञानमुज्ज्वलम् । अनुगृह्म अखिलं लोकं, लोकाग्रमधिगच्छति ॥ २६ ॥
For Private And Personal Use Only
॥१०