________________
18-2-28*29028****%22%89%88*839001
यथावस्थिततत्त्वाना, संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः, सम्यग्ज्ञानं मनीषिणः ॥२॥ यो. पृ. ३६ लो. १६ निर्वाणपदमप्येक, भाव्यते यन्मुहुर्मुहुः । तदेव ज्ञानमुत्कृष्टं, निर्बन्धो नास्ति भूयसा ॥ ३ ॥ ज्ञा. ज्ञानाष्टक श्लो. २ । स्वभावलाभसंस्कारकारणं ज्ञानमिष्यते । ध्यानध्यमात्रमतस्त्वन्यत्, तथा चोक्तं महात्मना ॥ ४॥ वादांश्च प्रतिवादांश्च, बदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकदद् गतौ ॥५॥ ज्ञा. ज्ञा. श्लो. ३-४ | ज्ञानाजीर्णमृताः केचिज्ज्ञानदग्धास्तथाऽपरे । अन्ये तु ज्ञानवाहिकाः, केचिज्ज्ञानमयाः पुनः ॥ ६॥ अस्ति चेद् ग्रन्थिमिद् ज्ञान, कि चित्रैस्तन्त्रयन्त्रणैः । प्रदीपाः क्योपयुज्यन्ते, तमोधी दृष्टिरेव चेत् ? ॥७॥ झ. ज्ञा. ६ | मिथ्यात्वशैलपक्षच्छिज्ज्ञानदंभोलिशोभितः। निर्भयः शक्रवद्योगी, नंदत्यानन्दनन्दने ॥८॥ ज्ञा. ज्ञानाष्टक श्लो. ७ पीयूषमसमुद्रोत्थे, रसायनमनौषधम् । अनन्यापेक्षमैश्वर्य, ज्ञानमाहुर्मनीषिणः ।। ९ ॥ ज्ञा. ज्ञानाष्टक लो. ८ ज्ञानं तृतीय पुरुषस्य नेत्रं, समस्ततवार्थविलोकदक्षम् । तेजोऽनपेक्षं विगतान्तराय, प्रवृत्तिमत् सर्वजगत्त्रयेऽपि ॥१०॥ सुभाषितरत्नसंदोह श्लो. १९४ ज्ञानं स्यात् कुमतअन्धकारतरणिर्ज्ञानं जगल्लोचनं, ज्ञानं नीतितरङ्गिणीकुलगिरिज्ञा कषायापहम् । ज्ञानं निर्वृतिवश्यमन्त्रममलं ज्ञानं मनःपावन, ज्ञानं स्वर्गगतिप्रयाणपटहं ज्ञानं निदान श्रियः ॥११॥सु० ग्लो०७ । एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं, तत्प्रत्यक्षं परोक्षं च ॥ १२ ॥३० श्लो० २२४ तत्र परोक्षं द्विविधं श्रुतमाभिनिवोधिकं च विज्ञेयम् । प्रत्यक्षं चावधिमनपर्यायौ केवलं चेति॥१३॥ प्र० श्लो० २२५ सामायिकविशुद्धात्मा, सर्वथा घातिकर्मणः । क्षयात्केवलमामोति, लोकालोकप्रकाशकम् ॥ १४ ॥ अ.के. सो०१
宇泰泰泰泰泰泰泰泰拳带崇際碳举张泰拳泰拳举张带来张
For Private And Personal use only