________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । वन्धस्तु विषयासंगे, मुक्तेर्निर्विषयं मनः ॥ ६ ॥
मणमरणे इंदियमरणं, इंदियमरणे मरंति कम्माई । कम्ममरणेण मुक्खो, तम्हा मणमारणं बिंति ॥७॥ सु. श्लो. २४-२५ मनःकपिरयं विश्वपरिभ्रमणलम्पटः । निमन्त्रणीयो यत्नेन, मुक्तिमिच्छुमिरात्मनः ॥ ८ ॥ यो. प्र. ४ श्लो० ३९ चञ्चलं हि मनः कृष्णः प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये, वायोरिव सुदुष्करम् ॥ ९ ॥
असंशयं महाबाहो ! मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय ! वैराग्येण च गृह्यते ॥ १० ॥ भ. अ. ६, लो. ३४-३५ मनःक्षपाचरो भ्राम्यनपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्तगर्ते जगत्त्रयीम् ॥ ११ ॥ यो. प्र. ४, श्लो. ३५
१३९ मनसो भेदाः
सुविदितयोगैरिष्टं क्षिप्तं मूढं तथैव विक्षिप्तम् । एकाग्रं च निरुधं चेतः पञ्चप्रकारमिति ॥ १ ॥ विषयेषु च कल्पितेषु च पुरः स्थितेषु च निवेशितं रजसा । सुखदुःखयुम्बहिर्मुख - माम्नातं क्षिप्तमिह चित्तम् ॥ २ ॥ क्रोधादिभिर्नियमितं विरुद्धकृत्येषु यत्तमोमूम्ना । कृत्याकृत्यविभागा - सङ्गतमेतत्मनो मूढम् ॥ ३ ॥ सत्त्वोद्रेकात्परिहृत - दुःखनिदानेषु सुखनिदानेषु । शब्दादिषु प्रवृत्तं सदैव चित्तं तु विक्षिप्तम् ॥ ४ ॥ अद्वेषादिगुणवतां नित्यं खेदादिदोषपरिहारात् । सदृशप्रत्ययसङ्गतमेकाग्रं चित्तमाम्नातम् ॥ ५ ॥ उपरतविकल्पवृत्तिकमवग्रहादिक्रमच्युतं शुद्धम् । आत्माराममुनीनां भवति निरुद्धं सदा चेतः ॥ ६ ॥ अ० प्र०
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
64