SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shi Mahavir Jain Aradhana Kendra जैनसूक्त ० ॥५२॥ www.kobatirth.org. १२९ लेश्या कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्राऽयं, लेश्याशब्दः प्रवर्तते ॥१॥ यो. प्र. ४ श्लो०४४ ताः कृष्णनीलकपिततैजसपद्मशुक्लनामानः। श्लेष इव वर्णंबन्धस्य, कर्मबन्धस्थितिविधात्र्यः ॥२॥ यो. प्र. ४ श्लो० ४४ अतिरौद्रः सदा क्रोधी, मत्सरी धर्मवर्जितः । निर्दयो वैरसंयुक्तः कृष्णलेश्याधिको नरः ॥ ३॥ उ० भा० ४ पृ० ९० असो मन्दबुद्धिश्व स्त्रीलुब्धः परवश्चकः । कातरथ सदा मानी, नीललेश्याधिको भवेत् ॥४॥ उ० भा. ४ पृ० ९० विद्यावान् करुणायुक्तः, कार्याकार्यविचारकः। लाभालाभे सदा प्रीतः पीतलेश्याऽधिको नरः ॥ ५ ॥ उ. भा० ४ पृ० ९१ क्षमावांश्च सदा त्यागी, देवार्चनरतो यमी । शूचीभूतः सदाऽऽनन्दी, पद्मलेश्याऽधिको भवेत् ||६|| उ. भा०४ पृ० ९१ रागद्वेषविनिर्मुक्तः, शोकनिन्दाविवर्जितः । परमात्मत्वसंपन्नः शुक्ललेश्यो भवेन्नरः ॥ ७ ॥ उ० भा० ४ पृ० ९१ याशी जायते लेश्या, समयेऽन्त्ये शरीरिणः । तादृश्येव भवेल्लेश्या, प्रायस्तस्यान्यजन्मनि ॥ ८ ॥ घ० पृ० ५ १३० मनः शुद्धिः दानं पूजा तपश्चैव, तीर्थसेवा श्रुतं तथा । सर्वमेव वृथा तस्य यस्य शुद्धं न मानसम् ॥ १ ॥ धर्म० पृ. ३, श्लो० ८१ सर्वाः संपत्तयस्तस्य, विशुद्धं यस्य मानसम् । उपानहूढपादस्य, ननु चर्मावृतैव भूः ॥ २ ॥ सु० पृ. २०४ श्लो. ७ मनःशुद्धिमविभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम् ॥३॥ यो. लो. ४२ सत्येन शुध्यते वाणी, मनोज्ञानेन शुध्यति । गुरुशुश्रूषया कायः, शुद्धिरेषा सनातनी ॥ ४ ॥ ० श्लो० २२२ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १२९ लेश्या ॥ ५२॥
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy