________________
Shn Mahavir Jain Aradhana Kendra
जैन सूक्त ० ॥ ५३॥
www.kobatirth.org.
१३२ आत्मनिन्दा गर्भित - जिन - स्तुतिः
दत्तं न दानं परिशीलितं च न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद् भवेऽस्मिन् विभो ! मया भ्रान्तमहो ! मुधैव ॥ १ ॥ दोऽग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाख्यमहोरगेण ।
प्रस्तोऽभिमानाजगरेण माया, जालेन बद्धोऽस्मि कथं भजे त्वाम् १ ॥ २ ॥ वैराग्यरङ्गः परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याध्ययनं च मेऽभूत्, कियद् ब्रुवे हास्यकरं स्वमीश ! ॥३॥ परापवादेन मुखं सदोष, नेत्रं परस्त्रीजनवीक्षणेन । चेतः परापायविचिन्तनेन कृतं भविष्यामि कथं विभोऽहम् १ ॥४ ॥ आयुर्गलत्याशु न पापबुद्धिर्गतं वयो नो विषयाभिलाषः ।
यत्नश्च भैषज्यविधौ न धर्मे, स्वामिन्! महामोहविडम्बना मे ॥ ५ ॥ न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः ।
लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयाऽरण्यविलापतुल्यम् ॥ ६ ॥ सद्भोगलीला न च रोगकीला, धनागमो नो निधनागमश्च । दारा न कारा नरकस्य चित्ते व्यचिति नित्यं मयकाऽधमेन ॥ ७ ॥ रत्नाकर०
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
***9909
आत्मनिन्दा गर्भित-जिन
स्तुतिः
| ।। ५३ ।।