________________
Shri Mahavir Jain Aradhana Kendra
13
www.kobatirth.org
जैनप्रतिमालेख संग्रह.
षड्विंशतिर्विबुधवृंद वितीर्णहर्षा राजेति देवकुलिका इह भूमिधानि ।
आद्यद्वितीयदिवनाथरवींदुदेव्यः
श्रीवाग्यता: प्रभुनमस्कृतये किमेताः ॥ ५० ॥
द्वाराणि सुप्रपंचानि पंच भांतीह भूगृहे । जिघत्सव होहरिणान् धर्मसिंहमुखा इव ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वौ द्वास्थौ द्वारदेशस्थौ राजतो भूमिधामनि । मूर्तिमंतौ चमरेंद्रवरणेद्राविव स्थितौ ॥ १२ ॥
चत्वारश्यमरवरा राजते यत्र भूगृहे । प्रमुपार्श्वे समायाता धर्मास्यागादयः किमु ॥ ५३ ॥
भाति भूमिगृहे मूलगर्भागारेऽतिसुंदरे । मूर्तिरादिप्रभोः सप्तत्रिंशदंगुलसंमिता ॥ ९४ ॥ श्रीवीरस्य त्रयत्रिंशदंगुला मूर्तिरुत्तमा । श्रीशांतेश्च सप्तविंशत्यंगुला भाति भूगृहे ॥ ५५ ॥
यत्रोद्धता धराधाम्नि शोभते दश दंतिनः । युगपज्जिनसेवायै दिशामीशा इवाययुः ॥ १६ ॥
यत्र भूमिगृहे भांति स्पष्टष्ट मृगारयः । भक्तिभाजामष्टकर्म्मगजान् हंतुमिवोत्सुकाः ॥ ५७ ॥
श्रीस्तंभतीर्थपूर्भूमिभामिनी मालभूषणं ।
चैत्यं चितामणेर्वीक्ष्य विस्मयः कस्य नाभवत् ॥ १८ ॥
एतौ नितांतमतनुं तनुतः प्रकाशं
यावत् स्वयं सुमनसां पथि पुष्पदंतौ ।
For Private And Personal Use Only
९७