________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खंभात.
ANAVAJMAAVVNAAVANVAJANAVAVALAAAANA AAAAAAAAAAAAAAAAVANAVAAAAAVANAVAANAAN
-
-
श्रीस्तंभतीर्थधरणीरमणीललाम
तावच्चिरं जयति चैत्यमिदं मनोज्ञं ॥ ५९॥ श्रीलाभविजयपंडिततिलकैः समशोधि बुद्धिधनधुर्थः । लिखिता च कीर्तिविजयाभिधेन गुरुबांधवेन मुदा ॥ १० ॥ वणिनीव गुणाकीर्णा सदलंकृतिवृत्तिभाग् । एषा प्रशस्तिरुत्कीर्णा श्रीधरेण सुशिल्पिना ॥ ६१ ॥ श्रीकमलविजयकोविदशिशुना विबुधेन हेमविनयेन । रचिता प्रशस्तिरेषा कनीव सदलंकृतिजयति ॥ ३२ ॥
इति परीक्षकप्रधानप० बजिआप० राजिनामसहोदरनिर्मापितश्रीचिंतामणिपार्श्वजिनपुंगवप्रासादप्रशस्तिः संपूर्णा । भद्रं भूयात् ॥
___ ॐ नमः । श्रीमद्विक्रमनृपातीतसंवत् १६४४ वर्षे प्रवर्त्तमानशाके १५०९ गंधारीयप० जसिआ तद्भार्या जसमादे संप्रति श्रीस्तंभतीर्थवास्तव्यतत्पुत्रप० वजिआप० राजिआभ्यां वृद्धभ्रातृभार्या विमलादे लघुभ्र तृभार्या कमलादे वृद्धभ्रातृपुत्रमेघनी तद्भार्या मयगलदेप्रमुखनिजपरिवारयुताभ्यां श्रीचिंतामणिपार्श्वनाथश्रीमहावीरप्रतिष्ठा कारिता श्रीचिंतामणिपार्श्वचैत्यं च कारितं । कृता च प्रतिष्ठा सकलमंडलाखंडलशाहिश्रीअकबरसन्मानितश्रीहीरविजयसूरीशपट्टालंकारहारसदृशैः शाहिश्रीअकबरपर्षदि प्राप्तवर्णवादैः श्रीविजयसेनसूरिभिः ।।
श्रीचिन्तामणिपार्श्वनाथ जिनालयना लेखो. ५३०. सं० १५०९ वर्षे मार्गशीर्षशुदि ६ दिने उकेशवंशे श्रे० सीहाभार्यासलपुत्रेण श्रेष्ठिमहिराजेन निजमातृपुण्यार्थ श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टेशश्रीजिनभद्रसूरियुगप्रवरागमैः ॥
For Private And Personal Use Only