SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० अडालज. महीपतीनां प्रवरो, महीप इति विश्रुतः । तस्य सूनुरभूत् पाण्डोर्युधिष्ठिर इवापरः ॥ ४ ॥ महीपतनयो ह्यासीद्, वीरसिंहो धराधिपः । लीलागृहीतदेहोऽसौ, रामो दशरथादिव ॥ ५ ॥ अभूतां नृपती यौ तु, भ्रातरौ रामलक्ष्मणौ । वरसिंहश्चाजैत्रश्च, महीपतनयावुभौ ॥ ६ ॥ दण्डाहिदेशाधिपतिवीरसिंहो धराधिपः । वल्ल्यवल्लीं समासाद्य, स्वशोभत पुरंदरः ॥ ७ ॥ तस्य श्रीवीरसिंहस्य, राज्ञो राज्ञी रमेव या। वापिकां शिल्पिमुख्यैश्च, रूडादेवी व्यचीकरत् ॥ ८ ॥ स्वस्तिश्रीनृपविक्रमार्कसमयातीते कलौ साम्प्रतं, संवत् पञ्चदशे तु पञ्चमिलिते वर्षे च पञ्चाशति । वीरश्रीवरसिंहदेवनृपते राज्ञी हि रूडाऽभिधा, वापी देवधुनीसमां सुतनया निर्माति वेणेशितुः ॥ ९ ॥ कौबेरी दिशमाश्रिते दिनपतौ मासे च माघाभिधे, पक्षे शुक्लतमे तिथौ फणभृतो वारे बुधस्योत्तरा । नक्षत्रे बवसंज्ञके च कर्णे योगे च सिद्धौ परे, रूडाऽऽख्या पतिदेवता तु महतीं वापीमकार्षीच्छुभाम् ॥ १० ॥ मानसाऽऽख्यं सरो दीव्यं, किंवा स्वर्गापगा किमु ? । कैलासो वेति सर्वेषां, विभ्रमं विदधाति या ॥ ११ ॥ या वापिति तनुते विषयं सुराणां, वातायनैः सुरवधूसमधिष्ठितैश्च । स्वर्गोऽप्यसौ किमुत वाऽसुरसद्मभूः सा, सा किं नु जह्नतनयाऽप्यथवेयमुच्चैः ॥ १२ ॥ For Private And Personal Use Only
SR No.008585
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages330
LanguageGujarati
ClassificationBook_Gujarati & History
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy