________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२७ }
ॐ अहम्. " श्रीमज्जगद्गुरुविजयहीरसूरिगुणाष्टकम् ."
शार्दूलविक्रीडितवृत्तम्.. श्रीमन्नारतभूमिदीव्यतिलक, संवेगरगोत्सुकं,
सत्तस्वार्थविवेचक विदलिता-जनजप्रतापं क्षणात् । सिद्धान्तार्थसमूहरम्यसरिता-मेकं महापर्वतं, .. सूरीन्द्रं गुरुवर्यहीरविजयं वन्दे मुदाऽऽनन्ददम् ॥१॥ भव्याम्भोजगणप्रबोधतरणि कारुण्यवारां निधि,
मित्राऽमित्रसम समानहदयं सर्वस्वमिष्यपि । हिंसार्हिसनतत्परं गुणरतं पाखण्डसंभेदक,
सूरीन्द्रं गुरुवर्यहीरविजयं धन्दे मुदाऽहर्निशम् ॥२॥ श्रीमहील्लिपतेरकठघरधरा-धीशस्य सम्बोधक,
ज्ञानेन प्रवलेन लोकविश्तिा -ऽमारोप्रवृत्युपतम् । सर्वोपद्रवदारणकविलमबुद्धिप्रभावं सदा,
सूरीन्द्र गुरुवर्यहीरविजयं वन्दे मुदाऽऽनन्ददम् ॥३॥ दीनाऽनाथजनोपकारकरणे -ऽनिर्षिण्णमूर्वीनले,
तीर्थानां शिवदायिनां शुपयतां सत्कर्मणा रक्षकम् । सद्विद्याधनधारकं हतधियां माहान्धताबारक,
सूरीन्द्रं गुरुवर्यहीरविजयं वन्दे मुदानन्ददम् ॥४॥ सम्यग्धर्ममहालयस्य विधिना नित्यं समारम्भकं,
सच्चारित्रगरिष्ठविष्टरगतं नित्यप्रमोदप्रियम् । पूजा धरणीभूतां भयहरं संसारभाजां नृणां,
सूरीन्द्र गुरुषर्यहोरविजयं वन्दे मुदाऽऽनन्ददम् ॥५॥ शान्ताऽशान्तमनल्पधैर्यमचलं चारित्रभारोबहे,
संघक्लेशनिवारक यमवता धौरे यमुनौजसम् । श्रीमतीर्थकरानुशासनमिदं संदीपितं येन तं,
सूरीन्द्रं गुरुपर्यहोर विजयं वन्दे मुदाऽहनिशम् ॥ ६ ॥
For Private And Personal Use Only