________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२८ ) संक्षमापतिमौरिहातपदा-म्भोज प्रभाभासुरं,
स्वर्गगोज्ज्वलकीर्तिदीपितजगद्धामानमापद्धरम् । भक्तानामभयप्रद मुनिगण-रासेवनीयं हदि,
सूरीन्द्रं गुरुवर्यहीरविजयं वन्दे मुदाऽहर्निशम् ॥७॥ पूज्यानां प्रवरं प्रशस्तचरित निमत्सराणां सतां,
नित्यं संस्मरणीयशीलविभवं सर्वोपकारक्षमम् । निर्वृत्तस्वपरार्थबुद्धि विषयं निर्मानमोहोदयं,
सूरीन्द्रं गुरुवर्यहीरविजयं वन्दे मुदाऽहनिशम् ॥८॥
श्रीमहावीराष्टकम.
ललित ( भद्रिका.) सकलसिद्धिदं सिद्धभाग्नं, वनजलोचनं चारुमूर्तिकम् । मतिमतां मतं सन्मतार्थिनां, जिनपति महावीरमाश्रये ॥१॥ मुनिगणैःभितं देवदानवै-नरगणैः सदा संस्तुतश्रियम् ।। परमतत्त्वदं यस्य दर्शनं, जिनपति महावीरमाश्रये ॥२॥ चरितमुत्तमं चारुदेशनं, शमित कामनं मान हारकम् । शिवसुखकरं योऽचरन्मुदा जिनपति महावीरमाश्रये ॥३॥ जननमृत्युहं पादपकजं, विमलबोधिदं यस्य शोभनम् । नगति देहिनां तारकं स्थितं, जिनपति महावीरमाश्रये ॥४॥ जय ति शासनं यस्य निर्मलं, प्रणतदेहिनां मुक्तिसाधनम् । निखिलकर्मणां वारकं वरं, जिनपति महावीरमाश्रये ॥५॥ भवभयातिहां यस्य वाचनां. समयवेदिनः श्रद्धयाऽनिशम् । श्रुतिगतां जनाः कुर्वते रता-जिनपति महावीरमाश्रये ॥६॥ कुरुत केवलं यद्गुणव्रज, क्षयकरं महामोहवैरिणः।। श्रवणगोचरं भव्यभावतो, जिनपति महावीरमाश्रये ॥७॥ तिथिरहो सदा स्मयते सका, मुनिपतिर्गती यत्र मोक्षके। भविननैमहामोदधारकैः, जिनपतिं महावीरमाश्रये ॥८॥
→* समाप्त. *
For Private And Personal Use Only