________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३) श्रीमन्त्राधिराजगर्भित
श्रीगौतमस्वामिस्तवनम् नमोऽस्तु श्रीह्रीधृतिकीर्तिबुद्धि-लक्ष्मीविलासैकनिकेतनाय । श्रीवीरपट्टाम्बरभास्कराय, लोकोत्तमाय प्रभुगौतमाय............. ।।१।।
ॐकारमक्षीणमहानसानां, श्रीमन्तमुज्जृम्भतपः प्रभावैः ।
ह्रीमन्तमात्मानुगवन्दनेना-ऽर्हन्तं नमस्यामि तमिन्द्रभूतिम्.... ।।२ ।। उन्निद्रसौवर्णसहस्रपत्र-गर्भस्थसिंहासनसंनिषण्णम् । दिव्यातपत्रं परिवीज्यमानं सच्चामरैश्चाऽमरराजसेव्यम्........... । ।३ ।।
कल्पद्रुचिन्तामणिकामधेनु-समाननामानममानशक्तिम् ।
अनेकलोकोत्तरलब्धिसिद्धं, श्रीगौतमं धन्यतमाः स्मरन्ति.... ।।४।। एकैव षड्दर्शनदृक्कनीनिका, पुराणवेदागमजन्मभूमिका । आनन्दचिद्ब्रह्ममयी सरस्वती, सदेन्द्रभूतेश्चरणोपसेविनी... ..... ।।५।।
सदा चतुष्पष्टिसुरेन्द्रमानस-व्यामोहिनी पद्महृदाधिवासिनी । सर्वाङ्गश्रृङ्गारतरङ्गितद्युतिः, श्रीगौतमं श्रीरपि वन्दते त्रिधा ।।६।। जयाजयन्तीविजयापराजिता-नन्दासुभद्राप्रमुखः सुरीजनः । प्रतिक्षणोज्जागरभूरिविभ्रमः, श्रीगौतमं गायति गाढगौरवः....... ।।७।।
मानुषोत्तरगिरेः शिरः स्थिता, दोः सहस्रसुभगा महाप्रभा ।
गीतगौतमगुणा त्रिविष्टप-स्वामिनी शिवशतं दधातु मे...... ।।८।। यक्षषोडशसहस्रनायको, दिव्यविंशतिभुजो महाबलः । द्वादशाङ्गसमयाधिदेवता, गौतमस्मृतिजुषां शिवङ्करः........... ।।९ ।।
ईशाननाथेन समं शतक्रतुः, सनत्कुमाराधिपतिः सुरान्वितः । श्रीब्रह्मलोकाधिपतिश्च सेवते, सगौतमं मन्त्रवरं पदे पदे.. ।।१०।।
२२
For Private And Personal Use Only