________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टनागकुलनायका, मणिप्रोल्लसत्फणसहस्रभासुरः । गौतमाय धरणः कृताञ्जलि-मन्त्रराजसहिताय वन्दते........... ।।११।।
रोहिणीप्रभृतयः सुराङ्गना, वासवा अपि परे सदाश्रवाः ।
गौतमं मनसि यक्षयक्षिणी-श्रेणयोऽपि दधति मुनीश्वरम्... ।।१२।। सज्जलानधनभोगधृतीनां, लब्धिरद्भुततमेहभवे स्यात् । गौतमस्मरणतः परलोके, भूर्भुवः स्वरपवर्गसुखानि..............।।१३।।
आँक्रौं श्रींहीं मन्त्रतो ध्यानकाले, पार्थे कृत्वा प्राञ्जलिः सर्वदेवान् ।
कायोत्सर्गेधूपकर्पूरवासैः, पूजां कुर्यात् सर्वदा ब्रह्मचारी... ।।१४ ।। जितेन्द्रियः स्वल्पजलाभिषेकवान्, शुद्धाम्बरो गुप्तिसमित्यलङ्कृतः। श्रीइन्द्रभूतरुपवैणवं गुणान्, स्मरन्नरः स्याच्छ्रुतसिन्धुपारगः.... ।।१५।।
तं श्रयन्ति पुरुषार्थसिद्धयो, भूष्यते विशदसाहसेन सः।
गौतमः प्रणयिभुक्तिमुक्तिदो, यस्य भाविविभवस्य नाथते.. ।।१६।। (१४) वाचकचक्रवर्ति महोपाध्याय श्रीधर्मसागरगणि शिष्य पं. गुणसागरगणिना कृतं श्री
गौतमस्वामिस्तवनम् गुणपुंगव! गौतम! गोतमगौ-र्गतिभंगगमागतिदुर्गतिवित् । त्वयकाऽग्रहि येन यतित्वमलं, त्रिशलातनयान्तिक अन्तकरे..... ।।१।।
त्रिपदीग्रहणोद्यतसद्धिषणः, कृतवीरपदार्थमुनिर्वचनः ।
वचनामृतहर्षितमर्त्यगणो, गुरुसौख्यभराय भव त्वमिह....... ।।२ ।। यन्नाममंत्रस्मरणेन सर्वं, शशाम विद्युच्चपलायुषां नः । दुःखातिगं कर्म पुराऽनुभूतं, बद्धं निधत्तं भवकोटिभूतम्.......... ।।३।।
For Private And Personal Use Only