________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १२ ) श्री गौतमस्वामी दीपालिका मंगल स्तोत्र
श्रीवीरवाक्यात् प्रगतः प्रभाते, यो देवशर्मा प्रतिबोधनाय ।
प्रातः समायन् किल केवलित्वं तं गौतमं भव्यजना भजध्वम्..
दीपोत्सवे योजितपाणिपद्मः,
सुरासुरेशैर्विनयावनम्रः । यदङ्घ्रिपद्मं प्रणतं प्रसद्य,
तं गौतमं भव्यजना भजध्वम्.
यस्य प्रभावाद् वरहस्तसिद्धेः, प्राप्नोत्यवश्यं स्वविनेयवर्गः । कैवल्यज्ञानमनन्यशक्तेः
तं गौतमं भव्यजना भजध्वम्. यन्नाम जापो जगति प्रतीतोऽभीष्टार्थसिद्धिं सकलां प्रदत्ते । कल्पद्रुकल्पं प्रणमद्जनानां, तं गौतमं भव्यजना भजध्वम्. इत्थं स्तुतो वीरजिनेंद्रशिष्यः, मुख्यो मया कोविदवृंदवन्द्यः । दीपालिकाया दिवसे गणीन्द्रः, संघेऽनघे मंगलमातनोतु..
२१
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
11911
।।२।।
।।३।।
।।४।।
।।५।।