________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।११।।
तदुचितमिहयच्छ्री गौतमस्याभिधाने निवसति जगतीस्थाशेषसंपत् प्रभुत्वं कथमनुदिनमेतन्मन्त्रजाप प्रभावात् श्रयतिसकललक्ष्मीरन्यथा भक्तभव्यात्. ...........
गणधरवरलब्धिविश्वविश्वोपकारा जगति जयतु यस्या द्वादशाङ्गी प्रसूतिः तदनु सकलदेशोदारसत्संयमश्रीः
प्रभवति भविकानां मोक्षलक्ष्मी तु यस्याः..... ......।।१२।। चरमजिनपसेवालब्धलब्धिप्रभावश्चरणकरणतत्त्वाराधनैकान्तचित्तः त्रिभुवनजननित्या-नन्दिसद्देशनाभिः प्रथयति गणराजः शुद्धधर्मप्रकाशं.
... ।।१३।। सेवते गणधरक्रमपङ्कजं यः सुधीः सरसभक्तिभावितः ऐहिकं सकलकामितं फलं प्रेत्य चापि लभते तथैव तत्..
।।१४।। गौतमं सुभगमेव गोत्रकं यत्र गौतमगणेश्वरोऽजनि वीरशासनमद्भुतं बभौ यत्र गौतमगुरुर्गुरोः पदे.......
।।१५।। भक्ति व्यक्ति विशेषनुन्नमनसा श्रीगौतमः सत्तमः स्तुत्यैवं प्रणतस्त्रिलोकमहित-श्रीद्वादशाङ्गी गुरुः सौभाग्याद्भुतभाग्यहर्षविनय-श्रीसूरितत्त्वश्रिया निष्णातस्तनुतां ममोरुमहिमां श्रीधर्महंसोज्ज्वलां..... ।।१६।।
For Private And Personal Use Only