________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आज्ञाप्रधानधर्मस्य, साधकः सङ्घ उच्यते, सूरेराझा सदामान्या, जैनैर्धर्माभिमानिभिः ४२ जैनशासनरक्षार्थ, सूरिः कालानुसारतः, या या आज्ञा करोत्येव, मान्यास्ताः पूर्णश्रद्धया. ४३ हतं निर्नायकं सैन्यं, हतं निर्मायक गृहम् , हतो निायकः संघो, हतो गच्छस्तथैव च. ४४ आज्ञा मान्या सदा जैनैः, सङ्घकार्येषु सूरीणाम् , धर्मकर्मानुष्ठानेषु, सूरीणां च तथैव वै. ४५ षोडशधर्मसंस्कारा, मान्या जैनः सुश्रद्धया, जैनवेदागमाः प्रोक्ताः, जैनोन्नतिकरा ध्रुवम् . ४६ हर्षोल्लासं न ये यान्ति, जैना दृष्ट्वा परस्परम् , सम्यक्लात्ते परिभ्रष्टाः, धर्मसम्बन्धवर्जिताः ४७ हर्षोल्लासं सदा यान्ति, दृष्ट्वा जैनाः परस्परम् , सम्यक्त्वधारकास्ते स्युः, जैनधर्मानुरागिणः ४८ जैनधर्मस्य दातृणां, मत्युपकृतिकोटिभिः,
For Private and Personal Use Only