________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८.) नैव प्रत्युपकारः स्यात् , धर्मभीवनसाधूनाम्. ४९ बोधिबीजस्य दातॄणां, भक्तिः कार्या च प्रत्यहम्, जैनः श्रद्धालुभिः सम्यग् , धाराधनतत्परैः ।। धर्मरक्षादिकार्येषु, योजनीया हि वादिनः, धर्मरक्षासमो धर्मो, न भूतो न भविष्यति. ५१ धर्मवादविवादार्थ, मुद्भाव्या जैनपण्डिताः, गृहस्थास्त्यागिनः शीघ्रं, विद्यादानेन धर्मिभिः. ५२ सूरीणामुपदेशेषु, शङ्का कार्या कदापि नो, जैनोन्नतिप्रबन्धन, वर्तितव्यं विवेकता. सर्वजातीयजनैर्हि, पाल्याज्ञा जैनसूरीणाम् , जैनाचार्यः सदासेव्यः, जैनसाम्राज्यरक्षकः. ५ चतुर्विधस्य संघस्य, नायकाः शासकास्तथा, जैनाचार्याः सदावन्द्यार, जैनैरुत्साहपूर्वकम्. ५५ जैनगृहस्थमुख्या ये, जैनधर्मप्रभावकाः, कार्य सिद्धान्तश्रवणं, तैरेव सद्गुरोर्मुखात् . ५६
For Private and Personal Use Only