SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *********+*+-+3 www.khatirth.org लेन, प्रतिविशिखमनेनोदृङ्कितं कालकूटम् ॥ १ ॥ कलयति मम चेतस्तन्पमङ्गारकल्पं, ज्वलयति मम गात्रं चन्दनं चन्द्रमा । स्थगयति मम नेत्रे मोहजन्मान्धकारो - विकृतबहुविकारं मन्मथो मां दुनोति ॥ २ ॥ रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो–विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते, हृदयमदये तस्मिन्नेवं पुनर्बलते बलात्कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ३ ॥ तथाच-- इदानीं तीव्राभिर्दहन इव भाभिः परिवृतो ममाश्वर्य सूर्यः किमु सखि १ रजन्यामुदयति । अयं मुग्धे १ चन्द्रः किमिति मयि तापं प्रकटयत्यनाथानां वाले ! किमिव विपरीतं न भवति ॥ ४ ॥ पिकाली वाचालीभवति बहुधालीकवचने, । मृणाली व्यालीव, व्यथयतितरामङ्गमनिशम् । विषज्वालाजालं, सखि ! किरति पीयूष किरणोजगत्प्राणः प्राणा-नपहरति केयं परिणतिः ॥ ५ ॥ किंबहुभाषितेन ! - रात्रिर्मे दिवसायते हिमरुचिचण्डांशुलचायते, तारापङ्क्तिरपि प्रदीप्तवडवावन्हिस्फुलिङ्गायते । मन्दो दक्षिणमारुतोऽपि दहनज्वालातिलीलायते, हाहा ! चन्दनबिन्दुरग्निकणवद्दाहाय सञ्जायते ॥ ६ ॥ तथाच - दिग्मण्डलं यन्निजभर्त्तुराश्रितं तन्मारुतं चुम्बति हर्षिताशया । प्रतिचणं तत्स्मरणैकमानसा, तपस्विनीवात्मगतिं व्यचिन्तयत् ॥ ७ ॥ प्राणाः ! कथं तिष्ठत यूयमक्षता - देशान्तरं प्राणपतौ गते सति । भर्त्तुर्वियोगं सहते न भामिनी, धिगस्तु मां तद्विपरीतवर्त्तिनीम् ॥ ८ ॥ स्वामिन् ! गुणांस्ते कियतः स्मरामि त्वत्प्रेमभावञ्च किमु स्मरामि ! । रथाङ्गनाम्नीमिवमां विहाय, गतो भवान्देशविलोकनेच्छुः ॥ ६ ॥ इन्द्रजालसमं सर्वं मन्येऽहमिदमद्भुतम् । कर्मपाशनिबद्धानां दुःखान्मुक्तिर्दवीयसी ॥ १० ॥ सर्वं कालकृतं मन्ये, यजातं शुभमेव तत् । श्रायुष्मान्भवते वृद्धि - जयतां प्रतिवासरम् || ११ || हेप्राणेश ? जगत्यस्मि-स्त्वमेव शरणं मम । त्वयाऽहं विस्मृता कुत्र, गमिष्यामि सुखाशया ॥ १२ ॥ For Private And Personal Use Only Acharya Shri Kassagarsun Gyanmandir CK++++++++*++++**+++-त्र.03+-*
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy