________________
ShriMahavir JanArchanaKendra
Acharach
an Gyaan
॥चंद्रराजचरित्रम् ॥ ॥११॥
तीयोल्लासेष्टमः सर्गः॥
प्रति प्राहिणोत् । मन्त्री च तत्र गत्वा श्रोत्रमूले शिवमालामब्रवीत्-योऽयं कुक्कुटराजोऽस्ति, सैव चन्द्रनरेश्वरः। तद्विमातुरिदं कर्म, सिद्धविद्याप्रभावतः । १।। अतोऽस्य सेवनं सम्य-विधातव्यं त्वया सदा । अस्माकं दर्शनं देयं, पुनरागमनेन च ॥२॥ ___प्रतिसमयं त्वया कुशलवृत्तान्तविज्ञापनीयम् । यतः-सम्बन्धिनः चेमकथा विदित्वा, भवन्ति भव्याः सुखिनः परस्मात् । | विदेशयातानपि पत्रलेखः, सामीप्यमाजो विदधाति भद्रः॥१॥ इतितांविनिवेद्य कुक्कुटश्च प्रणम्य मन्त्री निजस्थानमगात् । नटा अपि गृहीतस्वस्वसाधनाःप्रयाणपटहंवादयन्तोनगरान्निरगमन् । श्रुतपटहध्वनिर्गुणावली स्वप्रासादशिखरमधिरुह्य साभिलाषा नटमण्डलीमपश्यत्-शिवमालोचमाङ्गे सा, रत्नपञ्जरमास्थितम् । विलोकमाना तत्रैव, दृष्टिन्यासं मुहुर्व्यधात् ॥१॥ क्रमेणतद्गणो दृष्टि-मार्गमुल्लङ्घय जग्मिवान् । मूच्छिता साऽपतभूमौ, स्वभक्षुर्विरहात्तदा ॥२॥ तथावस्था समालोक्य, तत्सख्यस्ता सविस्मयाः । चन्दनायुपचारेण, चक्रिरे लब्धचेतनाम् ॥ ३॥ ततःसचिवोऽपि तत्र समागत्य सामवचनैस्तासान्तयामास. ज्ञातवृत्तान्ता वीरमत्यपि तदन्तिकमागत्य प्रावोचत्-सुभगे? शन्यममार्क, निर्गतं शीतभेषजा । निष्कण्टकमहो राज्यं, लब्धमायासमन्तरा ॥१॥ आवयोः कीदृशी प्रीति-रधुना विस्तरिष्यति । मुग्धे ? त्वया विलोक्यं त-मद्विचेष्टितमुत्तमम् ।। २ ।। समयवेदिनी गुणावली निजश्वभूमति श्लाघमाना तामन्त्रसरत् । ततोवीरमती हृष्टमानसा गुणावलीप्रशंसन्ती स्वस्थानमियाय. अथनिजपतिना विरहिता सा मानिनी विदेशगतस्वभारविचिन्तयन्ती निर्विया बभूव. यथा यथा भर्तृगुणान्स्मरति तथा तथा विरहानलज्वाला तन्मानसवनेधिकतरा प्रादुर्बभूव । विरहाग्निपीडिता सा नयनयोरश्रुधारांवहन्ती सखींप्रत्याह-बत सखि ? कियदेतत्पश्य वैरंस्मरस्य, प्रियविरहकशेऽस्मिन्रागिलोके तथाहि । उपवनसहकारोद्भासिभृङ्गच्छ
For Private And Personlige Only