________________
सर्गः।
भीमसेनचरित्रम् ।
॥२४॥
पुनर्मद्रा जगादेवं, स्वामिन् ? स्थान्यादिकं त्वया । नीतं किमापणं मायें ? न जानामीत्युवाचसः ॥ २६ ॥ सुशीलयाति पापिन्या-ऽनया दचानि तत्पतिः । पात्राणि चचरे नूनं, विक्रीय धनवानभूत् ॥ २७ ॥ तस्मादिदानी ते सर्वे, बहिष्कार्या निकेतनात् । सशल्यं हृदयं याव-चावच्छान्तिः कृतोभवेत् ॥ २८॥ इत्यावेद्य मृषावाद, विरराम वणिग्वशा । विधौ रुष्टे हि
जन्तूनां, कस्कोऽनर्थो न जायते ॥२६॥ व्यवहारी बभाषैतां, व्यलोकं त्वं प्रजन्पसि मृषापवादः कस्यापि, न वाच्यो भूति| मिच्छता ॥ ३०॥ भद्रे ! स्वयात्विमे रङ्का-मिथ्यावादेन क्षिताः । दुःखदावाग्निना दग्धाः, पालनीयाः सदा बुधैः ॥३१॥ || भद्रा निशम्य तद्वाक्य, तत्वार्थविधुरा भृशम् । चुक्रोध रक्तनयना, बभाषे प्रखरध्वनिः ॥३२॥ हुं शाता तब चेष्टेयं, मत्स्था
ने रचिता हि सा । लोकप्रतारणार्थाय, भृत्याऽस्तीति प्रजल्पसि ॥३३॥ वाराङ्गनेव सा चिन्है-मयेयं ज्ञातपूर्विका । तया संमोहितो मूढ-स्त्वमासीस्तदशंगतः ॥ ३४ ॥ दास्या सार्द्ध भवान्भोगा-भुञ्जानोऽस्तीत्यसंशयम् । नैतावत्कालमूचेऽहं, | पापराशिस्तवोदितः ॥ ३५ ॥ दम्पत्योः कलहं गाढं, श्रुत्वा लोकाः समागमन् । मार्गश्च संकुलो जले, पश्यन्ति कौतुकं न के ॥३६ ॥ चणेन मानवैयाप्तं, स्थलं नैव विलोक्यते । तदा भद्रा नृपं राजी, चाङ्गुन्योद्दिश्य वर्त्मनि ॥३७॥ लोकान् दर्शयते राटी, मुश्चन्ती भाषते वृथा । सभार्यः किंकरः प्राणान् , हन्तुमेव समागतः ॥ ३८ ॥ श्रुत्वेति नृपतिर्जले, सभार्योदुःखितो भृशम् । वहिज्वाला समुत्पन्ना, तयोश्चाङ्गे निरागसोः ॥ ३६॥ त्रपाभरेण नो किश्चिदचतुस्तौ नताऽऽननौ । धरा विदीर्यते
चेद् द्राक्, प्रवेष्टुमनसाविव ॥ ४० ॥ मिलिताश्च जना एते, ज्ञास्यन्ति कुत्सिताविमौ । दुष्टकर्मप्रणेतारा-वन्यथा कलहःमें कथम् ॥ ४१ ॥ एवञ्चिन्तयतोश्चित्ते, तयोर्नेत्राम्बुराशिभिः । कुतस्नानाविवाभोगौ, ददृशाते जनागमे ॥ ४२ ॥
॥२४॥
For
And Persone Oy