________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
च ॥ ३३४ ॥ निशम्य सद्रिं भूपो-विनीतः केवलिप्रभोः । देवसेनः पुनः प्रोचे, धर्मवासितमानसः ॥ ३३५ ॥ प्रभो ? विषमसंसाराऽ-वासो मे नैव रोचते । दीचां देहि कृपां कृत्वा, मोक्षमार्गस्य दृतिकाम् ॥ ३३६ ॥ उवाच केवली भूप , भोग्यकर्माणि तेऽधुना । सन्त्यतस्त्वं हितं शुद्ध-श्राद्धधर्म समाचर ॥ ३३७ ।। मुनिधर्म समाराध्य, तृतीयस्मिन्भवे नृप।। मोक्षश्रिया समाश्लिष्टो-भविष्यसि न संशयः ॥ ३३८ ॥ तथेत्युक्त्वा गुरुं नत्वा, व्रतानि द्वादशाऽग्रहीत् । देवसेनो विनीताऽऽत्मा, दयामूलानि भावतः ॥ ३३६ ॥ प्रणिपत्य प्रभोः पादौ, क्षमापः स्वजनसंयुतः । स्वस्थानमगमत्सम्य-ग्धर्मसंपद्वि
भूषितः ॥ ३४० ॥ केतुसेननरेन्द्रोऽपि, विधिना धर्ममार्हतम् । समाराध्य भवान्कृत्वा, कियतोचिरकालतः ॥ ३४१ ।। | लप्स्यते शाश्वतं स्थानं, जन्ममृत्युविवर्जितम् । यतिधर्मप्रभावेण, कृतकमरिपुचतिः ॥३४२॥ युग्मम् ॥ भव्यान्बोधयतस्तस्य, केवलज्ञानशालिनः । विहारेण पवित्रेण, गतः कालः कियानपि ॥ ३४३ ॥ निर्वाणसमयं ज्ञात्वा, भगवान् केवली निजम् । संमेतभूधरं प्राप, सर्वतीर्थशिरोमणिम् ॥ ३४४ ॥ शैलेशीध्यानमारूढः, सर्वपापाऽवरोधकम् । भगवान् केवलज्ञानी, रागद्वेषविजित्वरः ॥ ३४५ ।। नामाऽऽयुर्गोत्रकर्माणि, वेदनीयं तथैव च । चणेनैकेन युगप-रवपयामास स प्रभुः ॥ ३४६ ॥ भ्रान्त्वा भानुरिवक्षितौ शिवपदं श्रीभीमसेनः प्रभुः, सच्चक्रस्य सुखप्रदः चतमहामोहाऽन्धकारव्रजः । विज्ञानांशुमता भवोदधिजलं तीर्चा क्षणात्केवली, संप्रापाऽऽर्जवतायुतेन समयेनैकेन शुद्धाऽऽत्मना ॥३४७॥ श्रीशान्तिनाथतीर्थेऽभू-भीमसेन| नराधिपः । दशसहस्रवर्षाऽऽयु-रात्मधर्मपरायणः ॥ ३४८ ॥ गृहाऽऽवासे सहस्राणि, पञ्चचैकं प्रपाल्य सः । छद्मस्थत्वे तु |
For Private And Personlige Only